________________
चन्द्रगिरि पर्वत पर के शिलालेख १११ प्राराध्यो गुणसेन-पण्डित-पतिस्स स्वास्थ्यकामैजना यत्सूक्तागद-गन्धतोऽपि गलित-ग्लानिं गति लम्भिताः ॥५३॥ वन्दे वन्दितमादरादहरहस्स्याद्वाद-विद्या-विदां स्वान्त-ध्वान्त-वितान-धूनन-विधौ भास्वन्तमन्यं भुवि । भक्तया त्वाजितसेन-मानतिकृतां यत्सन्नियोगान्मनःपद्म सद्म भवेद्विकास-विभवस्योन्मुक्त-निद्रा-भरं ॥५४॥ मिथ्या-भाषण-भूषणं परिहरेतद्धित्य...न्मुञ्चत स्याद्वादं वदतानमेत विनयावादीभ-कण्ठीरवं । नो चेत्तद्गु.. गर्जित-श्रुति-भय-भ्रान्ता स्थ यूयं यतस्तूपर्ण निग्रह-जीर्णकूप-कुहरे वादि-द्विपाः पातिनः ॥५५॥ गुणाः कुन्द-स्पन्दोड्डमर-समरा वगमृत-वा:प्लव-प्राय-प्रेय:-प्रसर-सरसा कीतिरिव सा। नखेन्दु-ज्योत्स्नाङघेन्नप-चय-चकोर-प्रणयिनी न कासां श्लाघानां पदमजितसेन व्रतिपतिः ॥५६।। सकल-भुवनपालानम्र-मूर्द्धावबद्धस्फुरित-मुकुट-चूड़ालीढ-पादारविन्दः । मदवदखिल-वादीभेन्द्र-कुम्भ-प्रभेदी
गणभृदजितसेना भाति वादीभसिंहः ॥५॥ चूर्णि ॥ यस्य संसार-वैराग्य-वैभवमेवंविधारस्ववाच स्सूचयन्ति ।
प्राप्तं श्रीजिनशासनं त्रिभुवने यदुर्लभं प्राणिनां यत्संसार-समुद्र-मग्न-जनता-हस्तावलम्बायितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org