________________
चन्द्रगिरि पर्वत पर के शिलालेख स्मरण-मात्र-पवित्रतमं मनो भवति यस्य सतामिह तीर्थनां । तमतिनिर्मलमात्म-विशुद्धये कमलभद्रसरोवरमाश्रये
॥४८॥ सर्वाङ्ग र्यमिहालिलिङ्ग सुमहाभागं कलौ भारती भास्वन्तं गुण-रत्न-भूषण-गणैरप्यग्रिमं योगिनां । तं सन्तस्तुवतामलङ्कत-दयापालाभिधानं महासूरिं भूरिधियोऽत्र पण्डित-पदं यत्रैव युक्तं स्मृताः ॥४६॥ विजित-मदन-दर्पः श्रीदयापालदेवो विदित-सकल-शास्त्री निर्जिताशेषवादी । विमलतर-यशोभिर्व्याप्त-दिक-चक्रवालो जयति नत-महीभृन्मौलि-रत्नारुणा डिघ्रः ॥५०॥ यस्योपास्य पवित्र-पाद-कमल-द्वन्द्वन्नृपः पोय सलो लक्ष्मी सन्निधिमानयत्स विनयादित्यः कृताज्ञाभुवः । कस्तस्याहति शान्तिदेव-यमिनस्सामर्थ्य मित्थं तथेत्याख्यातुं विरलाः खलु स्फुरदुरु-ज्योतिर्दशा स्तादृशाः॥५१॥ स्वामीति पाण्डय-पृथिवी-पतिना निसृष्टनामाप्त-दृष्टि-विभवेन निज-प्रसादात् । धन्यस्स एव मुनिराहवमलभूभुगास्थायिका-प्रथित-शब्द-चतुमुखाख्यः ॥५२॥ श्रीमुल्ल र-विडूर-सारवसुधा-रत्नं स नाथो गुणे नाचूणेन महीक्षितामुरु-महःपिण्डश्शिरो-मण्डनः ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org