________________
१०८ चन्द्रगिरि पर्वत पर के शिलालेख
हितैषिणां यस्य नृणामुदात्त-वाचा निबद्धा हित-रूप-सिद्धिः । वन्द्यो दयापाल-मुनिः स वाचा सिद्धस्सताम्मूर्द्धनि यः
प्रभावैः ॥ ३८॥ यस्य श्रीमतिसागरो गुरुरसौ चञ्चद्यशश्चन्द्रसूः श्रीमान्यस्य स वादिराज-गणभृत्स ब्रह्मचारी विभोः । एकोऽतीव कृती स एव हि दयापालव्रती यन्मन--- स्यास्तामन्य-परिग्रह-ग्रह-कथा स्वे विग्रह विग्रहः ॥३६॥ त्रैलोक्य-दीपिका वाणी द्वाभ्यामेवोदगादिह । . जिनराजत एकस्मादेकस्मा द्वादिराजतः ॥४०॥ प्रारुद्धाम्बरमिन्दु-बिम्ब-रचितोत्सुक्यं सदा यद्यशश्छत्रं वाकचमरीज-राजि-रुचयोऽभ्यर्ण च यत्कर्णयोः । सेव्य:सिंहसमज़-पीठ-विभवः सर्व-प्रवादि-प्रजा
दत्तोच्चैर्जयकार-सार-महिमाश्रीवादिराजाविदा ॥४१॥ चूर्णिं ॥ यदीय गुण-गोचरोऽयं वचन-विलास-प्रसरः कवीनां । नमोऽहते ॥ (दक्षिणमुख)
श्रीमच्चालुक्य-चक्रेश्वर-जयकटके वाग्वधू-जन्म-भूमौ निष्काण्डण्डिण्डिम: पर्यटति पटु-रटो वादिराजस्य
जिष्णोः। जा द्यद्वाद-दो जहिहि गमकता गर्व-भूमा जहाहि व्याहारेयो जहीहि स्फुट-मृदु-मधुर-श्रव्य-काव्यावलेपः
॥ ४२ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org