________________
चन्द्रगिरि पर्वत पर के शिलालेख वन्द्योविभुर्भुवि न कैरिह काण्डकुन्दः कुन्द-प्रभा-प्रणयि-कीर्ति-विभूषिताशः। यश्चारु चारण-कराम्बुजचञ्चरीकश्वके श्रुतस्य भरते प्रयतः प्रतिष्ठाम् ।। ५ ॥ वन्द्योभस्मक-भस्म-सास्कृति-पटुः पद्मावती-देवतादत्तोदात्त-पदस्व-मन्त्र-वचन-व्याहूत चन्द्रप्रभः । आचार्यस्स समन्तभद्रगणभृद्य नेह काले कला
जैनं वर्त्म समन्तभद्रमभवद्भद्रं समन्तान्मुहुः ॥ ६॥ चूर्णि ॥ यस्यैवंविधा वादारम्भसंरम्भविजृम्भिताभिव्यक्तयस्सूक्तयः॥ वृत्त ॥ पूर्व पाटलिपुत्र-मध्य-नगरे भेरी मया ताड़िता
पश्चान्मालव-सिन्धु-ठक्क-विषये काञ्चीपुरे वैदिशे। प्राप्तोऽहं करहाटकं बहु-भट विद्योत्कट सङ्कटं वादार्थो विचराम्यहन्नरपते शाईल-विक्रीडितं ॥७॥ अवटु-तटमटतिझटिति स्फुट-पटु-वाचाटधूर्जटेरपिजिह्वा । वादिनि समन्तभद्रे स्थितवति तव सदसि भूप कास्था
न्येषां ॥७॥ योऽसौ घाति-मल-द्विषद्वल-शिला-स्तम्भावली-खण्डनध्यानासिः पटुरहतो भगवतस्सोऽस्य प्रसादीकृतः । छात्रस्यापि स सिंहन्दि-मुनिना नाचेत्कर्ष वा शिलास्तम्भोराज्य-रमागमाध्व-परिघस्तेनासिखण्डो धनः ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org