________________
चन्द्रगिरि पर्वत पर के शिलालेख । लोहार्य-जम्बु - विष्णुदेवापराजित-गोवर्द्धन-भद्रबाहु-विशाख-प्रोष्ठिल-कृत्तिकार्य - जयनाम-सिद्धार्थधृतिषेणबुद्धिलादि-गुरुपरम्परीणकमाभ्यागत - महापुरुष - सन्तति-समवद्योतितान्वय-भद्रबाहु-स्वामिना उज्जयन्यामष्टाङ्ग-महानिमित्त-तत्वज्ञेन त्रैकाल्य-दर्शिना निमित्तेन द्वादशसंवत्सर-काल-वैषम्यमुपलभ्य कथिते सर्वस्सङ्घ उत्तरापथादृक्षिणापथम्प्रस्थितः क्रमेणैव जनपदमनेक-ग्राम-शत-सङख्यं मुदितजन-धन-कनक-सस्य-गो-महिषा-जावि-कुल-समाकीर्णम्प्राप्तवान् [1] प्रतः आचार्यः प्रभाचन्द्रो नामावनितल-ललाम-भूतेऽथास्मिन्कटवम-नामकोपलक्षिते विविध-तरुवर - कुसुम - दलाबलि-विरचना-शबल-विपुल सजल-जलद - निवह - नीलोपल - तले वराह- द्वीपि-व्याघ्रः-तरतु-व्याल-मृगकुलोपचितोपत्यक-कन्दरदरी-महागुहा-गहनाभोगवति समुत्तुङ्ग-शृङ्ग सिखरिणि जीवितशेषमल्पतर-कालमवबुध्यात्मनः सुचरित - तपस्समाधिमाराधयितुमापृच्छर निरवसेषेण सङ्घ विसृज्य शिष्येणैकेन पृथुलतरास्तीर्ण-तलासु शिलासु शीतलासु स्वदेहं संन्यस्याराधितवान् क्रमेण सप्त-शतमृषीयामाराधितमिति जयतु जिन-शासनमिति ।
२(२०)
(लगभग शक सं० ६२२) अदेयरेनाड चित्तूर मौनिगुरवडिगल शिषित्तियर् नागमतिगन्तियर् मूरु तिङ्गल नोन्तु मुडिप्पिदर् ।
* क्षत्रिकाh | प्रभाचन्द्रण + अध्वनः 8 सुचकितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org