SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अमात्यसमुद्देशः । आयव्यय विप्रतिपत्तौ कुशलकरणकार्य पुरुषेभ्यस्तद्विनिश्चयः ॥ ५४ ॥ नित्यपरीक्षणं कर्मविपर्ययः प्रतिपत्तिदानं च नियोगिष्वर्थग्रहणोपायाः || ५५ ॥ नापीडिता नियोगिनो दुष्टत्रणा इवान्तःसारमुद्वमन्ति । ५६ । पुनः पुनरभियोगो नियोगिषु महीपतीनां वसुधारा ॥ ५७ ॥ सकृन्निष्पीडितं स्नानवस्त्रं किं जहाति सार्द्रताम् ॥ ५८ ॥ देशमापीडयन् बुद्धिपुरुषकाराभ्यां पूर्वनिबन्धमधिकं कुर्वन्नर्थमानौ लभेत ।। ५९ ॥ यो यत्र कर्मणि कुशलस्तं तत्र नियोजयेत् ॥ ६० ॥ न खलु स्वामिप्रसादः सेवकेषु कार्यसिद्धिनिबन्धनं किन्तु बुद्धिपुरुषकारौ वा शास्त्रविदप्यदृष्टकर्मा कर्मसु विषादं गच्छेत् ॥ ६१ ॥ अनिवेद्य भर्तुर्न कंचिदारंभं कुर्यादन्यत्रापत्प्रतीकारेभ्यः । ६२ । सहसोपचितार्थो मूलधनमात्रेणावशेषयितव्यः ॥ ६३ ॥ परस्पर कलहो नियोगिषु भूभुजां निधिः ॥ ६४ ॥ नियोगिषु लक्ष्मीः क्षितीश्वराणां द्वितीयः कोशः ॥ ६५ ॥ सर्वसंग्रहेषु धान्यसंग्रहो महान् ॥ ६६ ॥ यनिबन्धनं जीवितम् ॥ ६७ ॥ न खलु मुखे प्रक्षिप्तं सत्करोति द्रविणं प्राणत्राणं यथा धान्यम् ॥ ६८ ॥ १८९. " , १ वस्विति मू पुस्तके नास्ति । २ कारावेव । ३ अस्मादग्रे इदं सूत्रं मुद्रित - पुस्तके मूल - धनाद्विगुणाधिको लाभो भाण्डस्थो वणिजो भवति राज्ञः 1. ४ अस्मादग्रे ' सकलः प्रयासश्च इत्यधिकः पाठः मु-पुस्तके । ५ अस्य स्थाने न खलु मुखे प्रक्षिप्तं महदपि द्रव्यं प्राणत्राणाय यथा धान्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy