SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८८ नीतिवाक्यामृते किं तेन परिच्छदेन यत्रात्मक्लेशेन कार्य सुखं वा ॥४१॥ का नाम निवृत्तिः स्वयमूढतृणभोजिनो गजस्य ॥ ४२ ॥ सैंधवा स्वधर्माणः कर्मसु विनियुक्ता विकुर्वते तसादहन्यहनि तान् परीक्षेत ॥ ४३ ॥ मार्जारेषु दुग्धरक्षणमिव नियोगिषु विश्वासकरणम्॥४४॥ भीवेद्धिश्चित्तविकारिणी श्रीरिति सिद्धानामादेशः॥ ४५ ॥ सर्वोऽप्यतिसमृद्धो भवत्यायत्यामसाध्यः कृच्छ्रसाध्यः स्वामिपदाभिलाषी वा ॥ ४६॥ भक्षणमुपेक्षणं प्रज्ञाहीनत्वमुपरोधः प्राप्तार्थाप्रवेशो द्रव्यविनिमयश्चेत्यमात्यदोषाः ॥ ४७ ॥ बहुमुख्यमनित्यं च करणं स्थापयेत् ।। ४८ ॥ स्त्रीवर्थेषु च मनागप्यधिकारे न जातिसम्बन्धः ॥ ४९ ॥ परदेशजत्वापेक्षानित्यश्चाधिकारः ॥ ५० ॥ अदायकनिबन्धकप्रतिकण्टकविनिग्राहकराजाध्यक्षाः करणानि ॥५१॥ आयव्ययविशुद्धं द्रव्यं नीवी ॥ ५२ ॥ नीवीनिबन्धनपुस्तकग्रहणपूर्वकमायव्ययौ विशोधेत ॥५३॥ १ यत्रात्मक्लेशेन कार्य सुखं वा स्वामिनः मु.। २ निवृतिः-सुखं । ३ अस्त्रेण धर्मिणः पुरुषाः मु-पुस्तके । ४ ऋद्धिश्चित्तविकारिणी नियोगिनामिति सिद्धानामादेशः मु. । ५ त्यायलाभसाध्यः मु. । ६ करणं राज्यतंत्रं तद्बहुमुखं बहनामधिकारिणो बुद्धया निर्वहणीयं कुर्यात् । एकोधिकारी स्वेच्छया कदा. चिदनर्थमप्युत्पादयेत् । ७ वर्थे मु.। ८ कारेण जाति. मु.। ९ स्वपरपर. देशजावनपेक्ष्यानित्यश्चाधिकारः मु.। १० आयव्ययविशुद्धं द्रव्यनीवीनिबन्धकपुस्तकग्रहणपूर्वकमायव्ययौ विशोधयेत् मु.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy