SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६८ नीतिवाक्यामृते दुराग्रहस्य हितोपदेशो बधिरस्याग्रतो गानमिव ॥ ४० ॥ अकार्यज्ञस्य शिक्षणमन्धस्य पुरतो नर्तनमिव ॥ ४१ ॥ अविचारकस्य युक्तिकथनं तुषकंडनमिव ॥ ४२ ॥ नीचेषूपकृतमुदके विशीर्ण लवणमिव ॥४३॥ अविशेषज्ञे प्रयासः शुष्कनदीतरणमिव ॥४४॥ परोक्षे किलोपकृतं सुप्तसंवोहनमिव ॥ ४५ ॥ अकाले विज्ञप्तम्रषरे कृष्टमिव ॥ ४६॥ उपकृत्योद्घाटनं वैरकरणमिव ॥ ४७॥ अफलवतः प्रसादः काशकुसुमस्येव ॥४८॥ गुणदोषावनिश्चित्यानुग्रहनिग्रहविधानं Jहाभिनिवेश इव ४९ उपकारापकारासमर्थस्य तोषरोषकरणमात्मविडम्बनमिव ५० शूद्रेस्त्रीविद्रावणकारि गलगर्जितं ग्रामशूराणाम् ॥ ५१ ॥ स विभवो मनुष्याणां यः परोपभोग्यः ॥५२॥ स ननु व्याधियः स्वस्यैवोपभोग्यः ॥५३॥ स किं गुरुः पिता सुहृद्वा योऽभ्यम्यागर्भ बहुषु दोषं प्रकाशयन् शिक्षते ॥ ५४॥ स किं प्रभुर्यश्चिरसेवकेष्वेकमप्यपराधं न सहते ॥ ५५ ॥ इति पुरोहितसमुद्देशः। १-२ सूत्रद्वयं मुद्रितपुस्तके नास्ति । ३ निरर्थकमित्यर्थः। ४ प्रक्षिप्तं । ५ सुप्तस्य पदमर्दनवनिष्फलमित्यर्थः । ६ अफलतः लि. पुस्तके । 'अफलवतो नृपतेः' मुद्रितपुस्तके । ७ ग्रहाणां राहु केत्वादीनां भूतानां वा अभिनिवेशसदृशः स्वस्यैव बाधक इत्यर्थः । ८ आत्मन उपहाससदृशं । ९ 'ग्राम्य स्त्री ' मुपुस्तके । १. मानुषाणां मु-पुस्तके । ११ 'यः परोपभोग्यो न तु व्याधिरिव यः स्वस्यैवोपभोग्यः' मु-पुस्तके । १२ शिक्षति लि० पुस्तके। शिक्षयति मु-पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy