________________
षट्प्राभूतेयथा पुष्पं गन्धमयं भवति स्फुटं क्षीरं तद्धृतमयं चापि ।
तथा दर्शनं हि सम्यग्ज्ञानमयं भवति रूपस्थम् ॥ जह फुल्लं गंधमयं यथा पुष्पं गन्धमयं भवति । भवदि हु खीरं स घियमयं चावि भवति हु-स्फुटं क्षीरं दुग्धं, स-तत् घृतमयं घृतयुक्तं चापि । अपिशब्दादन्येऽपि कनकपाषाणकाष्ठाग्निप्रभृतयो दृष्टान्ता ज्ञातव्याः । तह दंसणं हि सम्मं तथा दर्शनं सम्यक्त्व हि निश्चयेन सम्यग्ज्ञानमयं भवति । स्वत्थं यतिश्रावकासंयतसदृष्टिमूर्तिस्थित दर्शनं ज्ञातव्यमित्यर्थः । दंसणं-दर्शनाधिकार एकादशाधिकारेषु बोधप्राभते चतुर्थः समाप्तः ।४। अथेदानी जिनबिंबस्वरूपं निरूपयन्ति श्रीगृपिच्छाचार्या भगवन्तःजिणबिंब णाणमयं संजमसुद्धं सुवीयरायं च । जं देइ दिक्खसिक्खा कम्मक्खयकारणे सुद्धा ॥१६॥
जिनबिम्बं ज्ञानमयं संयमशुद्धं सुवीतरागं च ।
यद् ददाति दीक्षाशिक्षे कर्मक्षयकारणे शुद्धे । जिणबिंब णाणमयं जिनस्य बिम्बमाकारो ज्ञानमयं मतिज्ञानश्रुतज्ञानयथासंभवावधिज्ञानयथासंभवमनःपर्ययज्ञानमयं भवति तृतीयः परमेष्ठी आचार्यसंज्ञको जिनबिम्बं ज्ञातव्य इत्यथः । संजमसुद्धं सुवीयरायं च तदुक्तलक्षणं जिनबिम्बं कथंभूतं भवतीत्याह-संयमशुद्धं संयमेन निरतिचारचारित्रेण शुद्धं निर्मलं, सुष्ठु-अतिशयेन वीतरागं वीतः क्षयं गतो रागः प्रीतिलक्षणो यस्मादिति वीतरागं । अज क्षेपणे इति धातोः प्रयोगात् । “ अजेर्वीः " इति वचनादजेर्धातोर्वीरादेशः। चकारात्तद्गुणाधिकारोपणा निषेधिका च जिनबिम्बं भवति । जं देइ दिक्खसिक्खा यज्जिनाबिम्बमाचार्यः ददाति दीक्षां व्रतारोपणलक्षणां, शिक्षां च द्वादशानुप्रेक्षालक्षणां ददाते। कम्मक्खयकारणे सुद्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org