________________
८३
बोधप्राभृतं । वात्परतो न गच्छन्ति, अजंगमेन रूपेण स्थिररूपेण तिष्ठन्ति निश्चय स्थिरप्रतिमाभिधानाः । सिद्धहाणम्मि ठिया सिद्धानां मुक्तात्मनां स्थाने त्रिभुवनाने तनुवातवलये स्थिताः-मुक्तिशिलामीषदूनगव्यूतिमधो मुक्त्वा आकाशे निराधाराः स्थिताः । वोसरपडिमा धुवा सिद्धा व्युत्सर्गप्रतिमाः कायोत्सर्गेण पद्मासनेन वा स्थिता ध्रुवाः शाश्वताः सिद्धाः प्रतिमा भवन्ति । तेऽपि वन्दनीया भवन्ति ।
पडिमा-प्रतिमाधिकारस्तृतीयः समाप्तः । ३ । अथेदानी गाथाद्वयेन दर्शनाधिकारं कथयन्ति श्रीकुन्दकुन्दाचार्या:दंसेइ मोक्खमग्गं सम्मत्तं संयमं सुधम्मं च । निग्गंथं णाणमयं जिणमग्गे दंसणं भणियं ॥ १४ ॥
दर्शयति मोक्षमार्ग सम्यक्त्वं संयमं सुधर्म च ।
निर्ग्रन्थं ज्ञानमयं जिनमार्गे दर्शनं भणितम् ॥ दंसेइ मोक्खमग्गं दर्शयति प्रकटयति मोक्षमार्ग सम्यग्दर्शनज्ञानचारित्रलक्षणं यत्तदर्शनं । “कृत्ययुटोऽन्यत्रापीति"वचनात्कर्तरि युट्प्रत्ययः। कोऽसौ मोक्षमार्गो यं दर्शनं कर्तृतया दर्शयति, सम्मत्तं सम्यक्त्वं तत्वार्थश्रद्धानलक्षणं । तथा संयम चारित्रं पंचमहाव्रतपंचसमितित्रिगुप्तिलक्षणं दर्शयति । सुधर्म चानशनादि द्वादशविधं तपश्च दर्शयति । कथंभूतं दर्शनं, निग्गंथं बाह्याभ्यन्तरपरिग्रहरहितं । भूयोऽपि कथंभूतं दर्शनं, णाणमयं सम्यग्ज्ञानेन निवृतं । जिणमो दंसणं भणियं जिनमार्गे सर्वज्ञवीतरागप्रतिपादिते मार्ग दर्शनं सम्यक्त्वरूपं भाणतं यतिश्रावकाधारं प्रतिपादित, अविरतसदृष्टयाधारभूतं च ।
जह फुलु गंधमयं भवदि हु खीरं स घियमयं चावि । तह दंसणं हि सम्मं णाणमयं होइ रूवत्थं ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org