SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ८५ बोधप्राभृतं । कर्मक्षयकारणे शुद्धां निर्मलां । जीवन्मुक्तजिनवदाचार्यों माननीय इति भावार्थः । उक्तं च सोमदेवेन सूरिणा-- ज्ञानकाण्डे क्रियाकाण्डे चातुर्वर्ण्यपुरःसरः । सूरिदेव इवाराध्यः संसाराब्धितरण्डकः ॥ १॥ तस्स य करह पणामं सव्वं पुजं च विणय वच्छलं । जस्य य दंसण णाणं अत्थि धुवं चेयणाभावो ॥ १७ ॥ तस्य च कुरुत प्रणाम सर्वां पूजां विनयं वात्सल्यं । यस्य च दशेनं ज्ञानं, अस्ति ध्रुवं चेतनाभावः ॥ तस्स य करह पणामं तस्य च जिनबिम्बस्य जिनबिंबमूर्तेराचायस्य प्रणामं नमस्कारं पंचाङ्गमष्टाङ्गं वा कुरुत यूयं हे भव्यजीवाः !, चकारादुपाध्यायस्य सर्वसाधोश्च प्रणामं कुरुत तयोरपि जिनबिम्बस्वरूपत्वात् । सव्वं पुजं च विणय वच्छल्लं सर्वां पूजामष्टविधमर्चनं च कुरुत यूयमिति, तथा विनयं हस्तयोटनं पादपतनं सन्मुखगमनं च कुरुत, वात्सल्यं भोजनं पानं पादमर्दनं शुद्धतैलादिनाङ्गाभ्यञ्जनं तत्प्रक्षालनं चेत्यादिकं कर्म सर्व तीर्थंकरनामकर्मोपार्जनहेतुभूतं वैयावृत्त्यं कुरुत यूयं । उक्तं च समन्तभद्रेण महामुनिना-- व्यापत्तिव्यपनोदः पदयोः संवाहनं च गुणरागात् । वैयावृत्त्यं यावानुपग्रहोऽन्योऽपि संयमिनां ॥ १ ॥ तथा चकारात्पाषाणादिघटितस्य जिनबिम्बस्य पंचामृतैः स्नपनं, अष्टविधैः पूजाद्रव्यैश्च पूजनं कुरुत यूयं । वंदनां भक्तिं च कुरुत। यदि तथाभूतं जिनबिम्ब न मानयिष्यथ गृहस्था अपि सन्तस्तदा कुंभीपाकादिनरकादौ पतिष्यथ यूयं । तथा चोक्तं सोमदेवेन स्वामिना ---- 'अपूजयित्वा यो देवान् मुनीननुपचर्य च । यो भुंजीत गृहस्थः सन् स भुंजीत परं तमः ॥१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy