________________
८६
पटप्राभूते
___ परं तम इति कोऽर्थः कुंभीनरकः, सप्तमे नरके पंच बिलानि तेषां नामानि यथा-रौरवमहारौरवासिपत्रकूटशाल्मलीकुंभीपाका इति । सप्तमनरके यानि चतुर्दिक्षु चत्वारि बिलानि वर्तन्ते तान्यर्धरज्जुप्रमाणानि सन्ति तेषां मध्ये यत्कुंभीपाकसंज्ञकं पंचमं बिलमस्ति तदेकयोजनलक्षप्रमाणं वर्तते, पंचभिरपि रज्जुरेका भूमी रुद्धा वर्तते । जस्स य दंसण णाणं यस्य पूर्वोक्तलक्षणस्य जिनबिंबस्य दर्शनं ज्ञानं च वर्तते । अत्थि धुवं चेयणाभावो अस्ति विद्यते ध्रुवं निश्चयेन चेतनाभाव आत्मस्वरूपं स्थापनान्यासेनापीति तात्पर्यम् ।
तववयगुणेहिं सुद्धो जाणदि पिच्छेइ सुद्धसम्मत्तं । अरहंतमुद्द एसा दायारी दिक्खसिक्खा य ॥ १८ ॥
तपोव्रतगुणैः शुद्धः जानाति पश्यति शुद्धसम्यक्त्वम् ।
अर्हन्मुद्रा एषा दात्री दीक्षाशिक्षाणां च ॥ तववयगुणेहिं सुद्धो तपोभिर्द्वादशभेदैः, व्रतैरहिंसासत्यास्तेयबझापरिग्रहै: पंचभिः, गुणैः पूर्वोक्तलक्षणेश्चतुरशीतिलक्षैः शुद्धो निष्कलङ्कः। जाणदि पिच्छेइ सुद्धसम्मत्तं जानाति सम्यग्ज्ञानवान् , पश्यति स्वरूपं वेत्ति कस्य शुद्धसम्यक्त्त्वस्य पंचविंशतिमलरहितस्य । अरहंतमुद्द एसा श्रीमद्भगवदर्हत्सर्वज्ञवीतरागस्य मुद्रा आकार एषा धर्माचार्यलक्षणा पाषाणघटितबिंबस्वरूपा यंत्रमंत्राराधनगम्या च जिनबिम्बं भवति । दायारी दिक्खसिक्खा य कथंभूता मुद्रा, दात्री दायका कासां, दीक्षाशिक्षाणां । चकाराद्यात्राप्रतिष्टादिकर्मणां च प्रवर्तिका । जिणबिंब-इति श्रीबोधप्राभते जिनबिम्बाधिकारः पंचमः समाप्तः॥५॥ अथेदानीमेकया गाथया जिनमुद्रां निरूपयन्ति श्रीमदेलाचार्याः
दढसंजममुद्दाए इंदियमुद्दा कसायदढमुद्दा । मुद्दा इह णाणाए जिणमुद्दा एरिसा भणिया ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org