SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८७ बोधप्राभृतं । दृढसंयममुदया इन्द्रियमुद्रा कषायदृढमुद्रा। मुद्रा इह ज्ञानेन जिनमुद्रा ईदृशी भणिता ॥ दढसंजममुद्दाए दृढया वज्रघटितप्रायया संयममुद्रया षड्जीवनिकायरक्षणलक्षणया षडिन्द्रियसंकोचस्वरूपया च मुद्रया वेषेण जिनमुद्रा भवति । इंदियमुद्दा कसायदढमुद्दा इन्द्रियाणां स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां द्रव्यन्द्रियाणां यत्र मुद्रणं कूर्मवत्करचरणसंकोचनमिन्द्रियमुद्रोच्यते सा जिनमुद्रा भवति । कसायदढमुद्दा-कषायाणां दृढं गाढं मुद्रणं कषायदृढमुद्रा । मुद्दा इह णाणाए मुद्रा इह जिनशासने ज्ञानेन भवति, अर्हनिशं पठनपाठनादिना जिनमुद्रा भवति। जिणमुद्दा एरिसा भणिया जिनमुद्रेदशी भणिता । मुनीनामाकारो जिनमुद्रा। ब्रह्मचारिणामाकारश्चक्रवर्तिमुद्रा ते उभये अपि माननीया ( ये )। यदि कश्चिदुरभिनिवेशेन तां न मानयति स पुमान् जिनमुद्राद्रोही विशिष्टैदण्डनीय इति भावार्थः। शिरःकूर्चश्मश्रुलोचो मयूरपिच्छधरः कमण्डलुकरोऽध:केशरक्षणं इति जिनमुद्रा. सा मान्यते । तदुक्तमिन्द्रनन्दिना प्रतिष्ठाचार्येण मुद्रा सर्वत्र मान्या स्यान्निर्मुद्रो नैव मान्यते । राजमुद्राधरोऽत्यन्तहीनवच्छास्त्रनिर्णयः ॥ १ ॥ जिणमुद्दा-इति श्रीबोधप्राभते जिनमुद्राधिकारः षष्ठः समाप्तः।६। अथेदानी ज्ञानाधिकारः प्रारभ्यते-- संजमसंजुत्तस्स य सुझाणजोयस्स मोक्खमग्गस्स । णाणेण लहदि लक्खं तम्हा णाणं च णायव्यं ॥ २० ॥ संयमसंयुक्तस्य च सुध्यानयोगस्य मोक्षमार्गस्य । ज्ञानेन लभते लक्ष्यं तस्मात् ज्ञानं च ज्ञातव्यम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy