________________
षट्प्राभूते
~
-
~
संजमसंजुत्तस्स य संयमेनेन्द्रियजयप्राणरक्षणलक्षणेन संयुक्तस्य संहितस्य । सुझाणजोयस्स मोक्खमग्गस्स सुष्टु ध्यानयोगस्य आर्तरौद्रध्यानद्वयरहितस्य ध्यानस्य धर्म्यध्यानशुक्लध्यानद्वयस्य योगेन संयोगेन सहितस्य, एवं विशेषणद्वयविशिष्टस्य मोक्षमार्गस्य सम्बन्धित्वेन । णाणेण लहदि लक्खं ज्ञानेन करणभूतेन लभते, किं कर्मतापन्नं लक्ष्यं निजात्मस्वरूपं । तम्हा णाणं च गायव्वं तस्मात्कारणाज्ज्ञानं च ज्ञातव्यं, न केवलमायतनादिषट्कं ज्ञातव्यं किन्तु ज्ञानं च ज्ञातव्यं । चशब्दः परस्परसमुच्चयार्थः । जह ण वि लहदि हु लक्खं रहिओ कंडस्स वेज्जयविहीणो। तह ण वि लक्खदि लक्खं अण्णाणी मोक्खमग्गस्स ॥२१॥
यथा नापि लक्षयति स्फुटं लक्ष्यं रहितः काण्डस्य वेध्यकविहीनः । तथा नापि लक्षयति लक्ष्यं अज्ञानी मोक्षमार्गस्य ॥ जह ण वि लहदि हु लक्खं यथा येन प्रकारेण नापि नैव लभते, हु-स्फुटं, लक्ष्यं वेध्यं । कोऽसौ वेध्यं न लभते, रहिओ कंडस्स वेज्जयविहीणो रहितोऽभ्यासरहितः, काण्डस्य बाणस्य, वेध्यकविहीनोऽनभ्यस्तवेध्यव्यधनः पुमान् । तह ण वि लक्खदि लक्खं तथा तेन प्रकारेण नापि लक्षयति जानाति लक्ष्यं परमात्मानं । अण्णाणी मोक्खमग्गस्स अज्ञानी ज्ञानरहितः पुमान् मोक्षमार्गस्य सम्यग्दर्शनज्ञानचारित्रलक्षणस्य लक्ष्यं निजात्मस्वरूपं न लक्षयति ।
णाणं पुरिसस्स हवदि लहदि सुपुरिसो वि विणयसंजुत्तो। णाणेण लहदि लक्खं लक्खंतो मोक्खमग्गस्स ॥ २२ ॥
ज्ञानं पुरुषस्य भवति लभते सुपुरुषोऽपि विनयसंयुक्तः । ज्ञानेन लभते लक्ष्यं लक्षयन् मोक्षमार्गस्य ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org