SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ षट्प्राभृतेजीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्वानि । सप्त तान्येव पुण्यपापद्वयसहितानि नवपदार्था वेदितव्याः । आयदणं-इत्यायतनस्वरूपं समाप्तम् । १ । अथेदानी चैत्यस्वरूपं निरूपयन्ति श्रीकुन्दकुन्दाचार्याः बुद्धं जं बोहंतो अप्पाणं चेझ्याई अण्णं च । पंचमहव्वयसुद्धं णाणमयं जाण चेदिहरं ॥ ८॥ बुद्धं यत् बोधयन् आत्मानं चैत्यानि अन्यच्च । पञ्चमहाव्रतशुद्धं ज्ञानमयं जानीहि चैत्यगृहम् ॥ बुद्धं जं बोहंतो बुद्धं कर्ममलकलंकरहितकेवलज्ञानमयं, जं-यत्, बोहंतो-बोधयन् । अप्पाणं चेइयाई अण्णं च आत्मानं शुद्धबुद्धैकस्वभावं निजजीवस्वरूपं बोधयन्नयं आत्मा चैत्यगृहं भवति । हे जीव ! तं-त्वं चैत्यगृहं जानीहि न केवलं आत्मानं बोधयन्तं आत्मानं चैत्यगृहं जानीहि किन्तु चेइयाई-चैत्यानि कर्मतापन्नानि भव्यजीववृन्दानि बोधयन्तमात्मानं चैत्यगृह निश्चयचैत्यालयं हे जीव ! त्वं जानीहि निश्चयं कुरु, न केवलमात्मानं चैत्यगृहं जानीहि किन्तु अण्णं च-व्यवहारनयेन निश्चयचैत्यालयप्राप्तिकारणभूतेनान्यच्च दृषदिष्टकाकाष्ठादिरचितं श्रीमद्भगवत्सर्वज्ञवीतरागप्रतिमाधिष्ठितं चैत्यगृहं हे आत्मन् ! हे जीव ! त्वं जानीहि । कथंभूतं चैत्यगृहं, पंचमहव्वयसुद्धं पंचभिर्महाव्रतैः कृत्वा शुद्धं समूलकाषं कषितकर्ममलकलंकसमूहं । अपरं कथंभूतं चैत्यगृहं, णाणमय केवलज्ञानकेवलदर्शनाभ्यां निर्वृत्तं निष्पन्नमित्यर्थः । यवहारचैत्यगृहं तु स्थापनान्यासेन पंचमहाव्रतशुद्धं स्थापनान्यासबलेन केवलज्ञानदर्शनमयमित्यर्थः स तु व्यवहारनयो मुख्यो निश्चयनयस्तु गौण इति ज्ञातव्यं । ये तु लोकायतिकादिमतानुसारिणो दुरात्मानः श्वेतपटाभासा निश्चयचैत्यमस्पृशन्तोऽपि व्यवहारचैत्यगृहं न मानयन्ति ते Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy