SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ बोधप्राभतं । भासाश्च नाभिगम्या न दर्शनीया नाभिवादनीयाश्च भवन्ति । अथ के. ते जैनाभासाः पूर्वमप्युक्ताः-- गोपुच्छिकः श्वेतवासो द्राविडो यापनीयकः। निष्पिच्छश्चेति पंचैते जैनाभासाः प्रकीर्तिताः॥१॥ एते मयूरपिच्छधरा अपि न वन्दनीयाः संशयमिथ्यादृष्टित्वात् । तथा च बौद्धमते आयतमलक्षणं पंचेन्द्रियाणि शब्दाद्या विषयाः पंच मानसं । धर्मायतनमेतानि द्वादशायतनानि च ॥१॥ धर्मायतनं शरीरमिति । सिद्धं जस्स सदत्थं विसुद्धझाणस्स णाणजुत्तस्स । सिद्धायदणं सिद्धं मुणिवरवसहस्स मुणिदत्थं ॥७॥ सिद्धं यस्य सदर्थं विशुद्धध्यानस्य ज्ञानयुक्तस्य । सिद्धायतनं सिद्धं मुनिवरवृषभस्य ज्ञातार्थाः ॥ सिद्धं जस्स सदत्थं सिद्ध लब्धिमायातं यस्य मुनिवरवृषभस्य । किं सिद्धं,सदत्थं-निजात्मस्वरूपं । कथंभूतस्य, विसुद्धझाणस्स णाणजुत्तस्स विशुद्धध्यानस्य आर्तरौद्रध्यानद्वयरहितस्य धर्म्यशुक्लध्यानद्वयसहितस्य गणधरकेवलिनो मुण्डकेवलिनस्तीर्थकरपरमदेव केवलिनो वा । कथंभूतस्यैतत्रयस्य, ज्ञानयुक्तस्य सकलविमल केवलज्ञानयुक्तस्य । सिद्धायदणं सिद्धं सिद्धायतनं सिद्धं सिद्धायतनं प्रतिपादितं । कस्य, मुणिवरवसहस्स मुनिवरवृषभस्य मुनिवराणां मध्ये वृषभस्य श्रेष्ठस्य । कथंभूतमायतनं, मुणिदत्थं मुनिता यथावद्विज्ञाता अर्थाः षड्व्व्याणि पंचास्तिकायाः सप्ततत्वानि नवपदार्थाः । जीवपुद्गलधर्माधर्मकालाकाशा इति षड्द्रव्याणि । कालरहितानि षड्व्याणि पंचास्तिकाया भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy