________________
बोधप्राभृतं । उभयतोऽपि भ्रष्टाः सर्वत्र भोजनभिक्षाग्राहका जिनधर्मविराधकाः पूर्वाचार्योपदिष्टजिनपूजादिकममानयन्तो न जाने का निन्दितां गति गमिष्यन्ति ।
चेइय बंधं मोक्खं दुक्खं सुक्खं च अप्पयंतस्स । चेइहरं जिणमग्गे छकायहियंकरं भणियं ॥९॥
चैत्यं बन्धं मोक्षं दुःखं सुखं च अर्पयतः।। ___ चैत्यगृहं जिनमार्गे षट्कायहितंकरं भणितम् ॥ चेड्य बंधं मोक्खं चैत्यं चैत्यगृहं बन्धं अष्टकर्मबन्धं करोति। पापकर्मोपार्जनं कारयति । पुनश्च किं करोति, मोक्षं सर्वकर्मक्षय लक्षणं मोक्षं च करोति । दुक्खं सुक्खं च अप्पयंतस्स चैत्यं चैत्यगृहं दुःखं शारीरमानसागन्तुलक्षणं दुःखमसातं बन्धफलं करोति । सुक्खं च-सुखं च मोक्षफलं परमानन्दलक्षणं करोति । कस्यैतद्वयं करोति, अप्पयंतस्सअर्पयतः पुरुषस्य । यः चैत्यगृहस्य दुष्टं करोति तस्य पापबन्ध उत्पद्यते, यश्चैत्यगृहस्य सुष्ठु करोति शोभनं विदधाति तस्य पुण्यमुत्पद्यते, तदाधारेण मोक्षो भवति, तत्फलेन यथासंख्यं दुःखं सुखं च भवतीति भावनीयं । चेइहरं जिणमग्गे चैत्यगृहं जिनमार्गे श्रीमद्भगवदर्हत्सर्वज्ञवीतरागशासने वर्तते एव को मिथ्यादृष्टिः पापीयांस्तल्लोपयति । यश्चैत्यं चैत्यगृहं न च मानयति स महापातकी भवति । अत एवं चोक्तं गौतमेन भगवता
याघन्ति जिनचैत्यानि विद्यन्ते भुवनत्रये।
तावन्ति सततं भक्त्या त्रिःपरीत्य नमाम्यहं ॥१॥ छक्कायहियंकरं भणियं चैत्यगृहं षट्कायानां हितङ्करं स्वर्गमोक्षकारकं भणितं जिनागमे प्रतिपादितं । चैत्यगृहार्थ या मृत्तिका खन्यते सा काययोगेनोपकारं चैत्यगहस्य कृत्वा शभमपार्जयति तेन त पार.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org