SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सूत्रप्राभृतं । जड़ दंसणेण सुद्धा उत्ता मग्गेण सा वि संजुत्ता । घोरं चरिय चरितं इत्थीसु ण पावया भणिया ॥ २५ ॥ यदि दर्शनेन शुद्धा उक्ता मार्गेण सापि संयुक्ता । घोरं चरित्वा चरित्रं स्त्रीषु न प्रव्रज्या भणिता ॥ जइ दंसणेण सुद्धा यदि दर्शनेन सम्यक्त्वरत्नेन शुद्धा निर्मला भवति । उत्ता मग्गेण सा वि संजुत्ता तदा मार्गेण सम्यग्दर्शनज्ञानचारित्रलक्षणेन सापि स्त्री च संयुक्ता भवति पंचमगुणस्थानं प्राप्नोति, स्त्रीलिंगं छित्वा स्वर्गाग्रे देवो भवति, ततश्युत्वा मनुष्यभवमुत्तमं प्राप्य मोक्षं लभते । उक्तं च सम्यग्दर्शनसंशुद्धमपि मातङ्गदेहजं । देवा देव विदुर्भस्मगूढाङ्गारान्तरौजसं ॥ १ ॥ स्वर्गेऽपि गता पुनः स्त्रीलिंगं न लभते । तदप्युक्तं समन्तभद्रेण महा कविना सम्यग्दर्शनशुद्धा नारक तिर्यङनपुंसक स्त्रीत्वानि । दुष्कुल विकृताल्पायुर्दरिद्रतां च व्रजन्ति नाप्यव्रतिकाः ॥ १ ॥ घोरं चरिय चरितं घोरं कातरजनभीतिजनकं चरित्रं चरित्वा षोडशसु स्वर्गेष्वन्यतमं स्वर्गं यान्ति अहमिन्द्रत्वमपि स्त्रीभवे न लभन्ते कथं मोक्षं स्त्रीभवे प्राप्नुवन्ति । तेन कारणेन इत्थीसु ण पावया भणिया स्त्रीषु न प्रव्रज्या निर्वाणयोग्या दीक्षा भणिता । इत्यनया गाथया सितपटानां मतं स्त्रीमुक्तिप्राप्तिलक्षणं प्रत्युक्तं भवति । मरुदेवी - ब्राह्मी - सुन्दरीयशस्वती-सुनन्दा- सुलोचना - सीता - रात्रि मति - चन्दना - अनन्तमति- द्रौपदीत्यादिकाः स्त्रियः स्वर्गे गता न तु मोक्षमिति । ६९ चित्तासोहि ण तेसिं ढिल्लं भावं तहा सहावेण । विज्जदि मासा सिं इत्थीसु णऽसंकया झाणं ||२६|| चित्ताशोधिः न तेसां शिथलो भावः तथा स्वभावेन । विद्यन्ते मासाः तासां स्त्रीषु न अशंकया ध्यानम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy