________________
षट्प्राभृतेकरः तीर्थकरपरमदेवोऽपि यदि भवति । गर्भावतारादिपंचकल्याणवानपि सिद्धो न भवति, आस्तां तावदन्योऽनगारकेवल्यादिकः । णग्गो विमोक्खमग्गो नग्नो वस्त्राभरणरहितो विमोक्षमार्गः ज्ञातव्यः । सेसा उम्मग्गया सव्वे शेषाः सितपटादीनां मार्गाः सर्वेऽपि उन्मार्गकाः कुत्सिता मिथ्यारूपा मार्गा ज्ञेया जानीया विद्वद्भिरित्यर्थः ।
लिंगम्मि य इत्थीणं थणंतरे णाहिकक्खदेसेसु । भणिओ सुहमो काओ तासं कह होइ पव्वज्जा ॥२४॥
लिङ्गे च स्त्रीणां स्तनान्तरे नाभिकक्षादेशेषु ।
भणितः सूक्ष्मः कायः तासां कथं भवति प्रव्रज्या ॥ लिंगम्मि य इत्थीणं लिंगे योनिमध्ये स्त्रीणां योषितां । थणंतरे णाहिकक्खदेसेसु स्तनान्तरे द्वयोः स्तनयोर्मध्ये वक्षःप्रदेशे, नाभिकक्षादेशेषु, नाभौ तुन्दिकायां, कक्षादेशयोर्बाव्होः मूलयोर्द्वयोः स्थानयोः । भणिओ सुहमो काओ भणित आगमे प्रतिपादितः कोऽसौ भणित: सूक्ष्मः कायः सूक्ष्मजीवशरीरं लोचनाद्यगोचरः सूक्ष्मपंचेन्द्रियपर्यन्तो जीववर्गः । तासिं कह होइ पव्वज्जा तासां स्त्रीणां कथं भवति प्रव्रज्या दीक्षा-अपि तु न भवति । यदि प्रव्रज्या न भवति तर्हि कथं पंचमहाव्रतानि दीयन्ते ? सत्यमेतत् सजातिज्ञापनार्थ महाव्रतानि उपचर्यन्ते स्थापनान्यासः क्रियते इत्यर्थः। तथा चोक्तं शुभचन्द्रेण महाकविना
मैथुनाचरणे मूढ ! म्रियन्ते जन्तुकोटयः ।
योनिरन्ध्रसमुत्पन्ना लिंगसंघट्टपीडिताः ॥ १॥ . कियन्तो जन्तवो म्रियन्त इति चेत् घाते घातेऽसंख्येयाः कोटय इति । “घाए घाए असंखेज्जा" इति वचनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org