SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सूत्रप्राभृतं । आद्यास्तु षड्जघन्याः स्युर्मध्यमास्तदनु त्रयः। शेषौ द्वावुत्तमावुक्तौ जैनेषु जिनशासने ॥१॥ एकादशके स्थाने ह्यत्कृष्टः श्रावको भवेद्विविधः । वस्त्रैकधरः प्रथमः कौपीनपरिग्रहोऽन्यस्तु ॥२॥ कौपीनोऽसौ रात्रिप्रतिमायोगं करोति नियमेन । लोचं पिच्छं धृत्वा भुक्ते ह्युपविश्य पाणिपुटे ॥३॥ वीरचर्या च सूर्यप्रतिमात्रैकाल्ययोगनियमश्च । सिद्धान्तरहस्यादिष्वध्ययनं नास्ति देशविरतानां ॥४॥ लिंगं इच्छीण हवदि भुंजइ पिंडं सुएयकालम्मि । अज्जिय वि एक्कवत्था वत्थावरणेण भुंजेइ ॥ २२॥ ___ लिङ्गं स्त्रीणां भवति भुक्ते पिण्डं स्वेककाले । -- आर्यापि एकवस्त्रा वस्त्रावरणेन भुंक्ते ॥ लिंगं इत्थीण हवदि तृतीयं लिंग वेषः स्त्रीणां भवति । भुंजइ पिंडं सुएयकालम्मि भुक्ते पिण्डमाहारं सुष्ठु निश्चलतया एककाले दिवसमध्ये एकवारं । अज्जिय वि एक्कवत्था आर्यापि एकवस्त्रा भवति । अपिशब्दात् क्षुलिकापि संव्यानवस्त्रेण सहिता भवति । वत्थावरणेण भुंजेइ भोजनकाले एकशाटकं धृत्वा भुक्ते संव्यानं उपरितनवस्त्रमुत्तार्य भोजनं कुर्यादित्यर्थः । ण वि सिज्झइ वत्थधरो जिणसासणे जइ वि होइ तित्थयरो। णग्गो विमोक्खमग्गो सेसा उम्मग्गया सव्वे ॥२३॥ नापि सिध्यति वस्त्रधरो जिनशासने यद्यपि भवति तीर्थकरः। नग्नो विमोक्षमार्गः शेषाः उन्मार्गकाः सर्वे ॥ ण वि सिज्झइ वत्थधरो नापि सिद्ध्यति नैव सिद्धिमात्मोपलब्धिलक्षणां मुक्तिं लभते वस्त्रधरो मुनिः । जिणसासणे जइ वि होइ तित्थयरो जिनशासने श्रीवर्धमानस्वामिनो मते यद्यपि भवति तीर्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy