SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६६ षट्प्राभूते wwwmmmmm पंचमहव्वयजुत्तो तिहि गुत्तिहि जो स संजदो होइ । णिग्गंथमोक्खमग्गो सो होदि हु वंदणिज्जो य ॥२०॥ पञ्चमहाव्रतयुक्तः तिसृभिः गुप्तिभिः यः स संयतः भवति । निर्ग्रन्थमोक्षमार्गः स भवति हि वन्दनीयः च ॥ पंचमहव्वयजुत्तो पंचमहाव्रतैर्युक्तः प्राणातिपातानृतादत्तसुरतपरिग्रहरहितः पुमान् पंचमहाव्रतयुक्त उच्यते । यस्तु स्तोकमपि परिग्रहीतं करोति सोऽणुव्रतः सागारोऽव्रतो वा कथ्यते । तेन वस्त्रादौ परिग्रहे सति तत्र यूकालिक्षादयस्त्रीन्द्रिया जीवा उत्पद्यन्ते, यदि ततोऽपनीयान्यत्र क्षिप्यन्ते ततो नियन्ते कथं प्राणातिपातकरहितो निरागारो भवति, अलमतिविस्तरेण परिग्रहवान् महाव्रती न भवति । तिहि गुत्तिहि जो स संजदो होदि तिसृभिर्गुप्तिभिर्युक्तो यो मुनिः स संयतः संयमवान् भवति । णिग्गंथमोक्खमग्गो निम्रन्थमोक्षमार्ग यो मन्यते । सो होदि हु वंदणिज्जो स भवति हु-स्फुटं वन्दनीयः । यः सग्रन्थमोक्षमार्ग मन्यते स मिथ्यादृष्टि नाभासश्चावंदनीयो भवतीति भावार्थः । दुइयं च वुत्त लिङ्ग उकिटं अवरसावयाणं च । भिक्खं भमेइ पत्तो समिदीभासण मोणेण ॥ २१ ॥ द्वितीयं चोक्तं लिङ्गं उत्कृष्टं अवरश्रावकाणां च । भिक्षा भ्रमति पात्रः समितिभाषेण मौनेन । दुइयं च वुत्त लिंगं द्वितीयं चोक्तं लिंगं वेषः। उक्किडं अवरसावयाणं च उत्कृष्टं लिंग अवरश्रावकाणां चागृहस्थश्रावकाणां । सोऽ वरश्रावकः भिक्खं भमेइ पत्तो भिक्षांभ्रमति पात्रसहितः करभोजी वा । समिदिभासेण मोणेण ईर्यासमितिसहित: मौनवांश्च, उत्कृष्टश्रावको दशमैकादशप्रतिमाः प्राप्तः । उक्तं च समन्तभद्रेण महाकविना १ पुस्तकद्वयेऽपि ईगेव पाठः । अस्य स्थाने सोमदेवनेति युक्तं भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy