SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूतेचित्तासोहि ण तेसिं चित्तस्य मनसः आ समन्ताच्छोधिनिर्मलता न विद्यते तासां स्त्रीणां । ढिल्लं भावं तहा सहावेण शिथिलो भावः परिणामस्तथा स्वभावेन प्रकृत्यैव, कस्मिंश्चिदूव्रतादावतिदाढ्यं न वर्तते। विज्जदि मासा तेसिं विद्यन्ते मासा-मासे मासे रुधिरत्रावस्तासां स्त्रीणां । इत्थीसु णऽसंकया झाणं स्त्रीषु न वर्तते किं तत्, अशंकया निर्भयतया ध्यानमेकाग्रचिन्तानिरोधलक्षणमिति भावः । “लुक्च" इति प्राकृतव्याकरणसूत्रेणाकारलोपः । गाहेण अप्पगाहा समुदसलिले सचेलअत्थेण । इच्छा जाहु नियत्ता ताह नियत्ताई सव्वदुःखाई ॥२७॥ ग्राह्येण अल्पग्राहाः समुद्रसलिले स्वचेलार्थेन । इच्छा येभ्यो निवृत्ता तेषां निवृत्तानि सर्वदुःखानि ॥ गाहेण अप्पगाहा ग्राह्येण आहारादिना ये मुनयोऽल्पग्राहाः स्तोकं गृह्णन्ति । समुद्दसलिले सचेलअत्थेण यथा समुद्रसलिले प्रचुरजलाशये सत्यपि स्वचेलप्रक्षालनार्थमल्पमेव जलं गृह्यते किं क्रियतेऽधिकजलग्रहणेन । इच्छा जाहु नियत्ता इच्छा तृष्णा लोभलक्षण। येभ्यो मुनिभ्यो निवृत्ता गता । ताह नियत्ताई सव्वदुःखाई तेषां निवृत्तानि नष्टानि सर्वदुःखानि शारीरमानसागन्तूनि कष्टानि नष्टान्येव समीपतरसिद्धिसुखसंभवादिति भावः । इति श्रीपमनन्दिकुन्दकुन्दाचार्यवक्रग्रीवाचायलाचार्यगृद्धपि. च्छाचार्यनामपंचकविराजितेन श्रीसीमन्धरस्वामिज्ञानसंबोधितभव्यजनेन श्रीजिनचन्द्रसूरिभट्टारकपट्टाभरणभूतेन कलिकालसर्वज्ञेन विरचिते षट्प्राभृतप्रन्थे सर्वमुनिमण्डलमण्डितेन कलिकालगौतमस्वामिना श्रीमल्लिभूषणेन भट्टारकानुमतेन सकलविद्वज्जनसमाजसम्मानितेनोभयभाषाकविचक्रवर्तिना श्रीविद्यानन्दिगुर्वन्तेवासिना सूरिवरश्रीश्रुतसागरेण विरचित्ता सूत्रप्राभृतटीका समाप्ता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy