SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूते हरिहरतुल्लो वि णरो हरिश्च नारायणो हरश्च रुद्रस्ताभ्यां तुल्यः समानः ऋद्धिमानित्यर्थः । नरः प्राणी मनुष्यः । सग्गं गच्छेड़ एइ भवकोडी दानपूजोपवासादिकं कृत्वा स्वर्ग देवलोकं गच्छति पश्चाद्भवान्तराणां कोटीरसंख्यानि भवान्तराणि अनन्तानि वा भवान्तराणि प्राप्नोति दुःखीभवति संसारी स्यात् । तह विण पावइ सिद्धिं तथापि भवकोटीपर्यटनप्रकारेणापि न प्राप्नोति सिद्धिं मोक्षं न लभते । किं तर्हि भवतीत्याह - संसारत्थो पुणो भणिदो संसारस्थः संसारी पुनर्भणितः सिद्धान्ते प्रतिपादितः । जिनसूत्राभावान्मिथ्यादृष्टिः सन् संसारदुःखं सहते सुखी न भवतीति भावः । ६० उक्किसीहचरियं बहुपरियम्मो य गरुयभारो य । जो विहरड़ सच्छंदं पावं गच्छेदि होदि मिच्छत्तं ॥ ९ ॥ उत्कृष्टसिंहचरितः बहुपरिकर्म्मा च गुरुभारश्च । यो विहरति स्वच्छन्दं पापं गच्छति भवति मिथ्यात्वम् ॥ उक्किसीहचरियं उत्कृष्टं सर्वयतिभ्योऽधिकं सिंहवन्निर्भयत्वेन चरितं चारित्रं यस्य स पुमानुत्कृष्टसिंहचरितः । प्राकृतत्वादत्र नपुंसकत्वं । अथवा विहरतीति क्रियाविशेषणत्वाद्वितीयैकवचनं, नपुंसकत्वं च । बहुपरिकम्मो य गरुयभारो य बहुपरिकर्मा चानेकतपोविधानमण्डितशरीरसंस्कारश्च मुनिर्गुरुतरभारथ राजादिभयनिवारकः शिष्याणां पठनपाठनसमर्थो यात्राप्रतिष्ठा दीक्षादानायुर्वेदज्योतिष्कशास्त्रनिर्णयकारकः षडावश्यककर्मकर्मटो धर्मोपदेशनसमर्थः सर्वेषां यतीनां च नैश्चिन्त्यकारको गुरुभार उच्यते, ईदृग्विधोऽपि गच्छनायको यतिः । जो विहरइ सच्छंद यो यतिः स्वच्छन्दं विहरति - जिनसूत्रं न प्रमाणयति । पावं गच्छेदि होड़ मिच्छत्तं स मुनिः पापं गच्छति प्राप्नोति - मिध्यात्वं तस्य भवतीति तात्पर्यार्थः । L Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy