________________
सूत्रप्राभृतं ।
निच्चेलपाणिपत्तं उवहं परमणिवरिंदेहि | एक्को विमोक्खमग्गो सेसा य अमग्गया सव्वे ॥ १० ॥
निश्चलपाणिपात्रं उपदिष्टं परमजिनवरेन्द्रैः । एकोपि मोक्षमार्गः शेषाश्च अमार्गाः सर्वे ॥
निच्चेलपाणिपत्तं निश्चलस्य मुनेः पाणिपात्रं करयो: पुढे भोजनमुक्तं । उवहं परमजिणवरिंदेहि उपदिष्टं परमजिनवरेन्द्रैस्तीर्थकरपरमदेवैः । एक्को हि मोक्खमग्गो एक एव मोक्षमार्गे निर्ग्रन्थलक्षणः । सेसा य अमग्गया सव्वे शेषा मृगचर्मवल्कलकर्पास पट्टकूलरोमवस्त्रगोणीतृणप्रावरणादि, सर्वे रक्तवस्त्रादि पीताम्बरादयश्च विश्वे, अमार्गाः संसार पर्यटनहेतुत्वान्मोक्षमार्गा न भवन्तीति भव्यजनैर्ज्ञातव्यं ।
६१
जो संजमेसु सहिओ आरंभपरिग्गहेसु विरओ वि । सो होइ वंदणीओ ससुरासुरमाणु से लोए ।। ११ ॥ यः संयमेषु सहितः आरम्भपरिग्रहेषु विरतः अपि । स भवति वन्दनीयः ससुरासुरमानुषे लोके ॥
जो संजमेसु सहिओ यो मुनिर्न तु गृहस्थः संयमेषु सहितः इन्द्रि - यप्राणसंयमवान् भवति | आरंभपरिग्गहेसु विरओ वि आरम्भाः सेवाकृषिवाणिज्यप्रमुखाः, परिग्रहाः क्षेत्रवास्त्वादयस्तेषु विरतो विरक्तो भवति । अपिशब्दः समुच्चये वर्तते । तेन ब्रह्मचर्यादयो गृह्यन्ते तस्माद्ब्रह्राचर्यधरो यतिरिति वचनात् । सो होड़ वंदणीओ स मुनिर्वन्दनीयो भवति । क्क वन्दनीयो भवति, ससुरासुरमाणुसे लोए लोके त्रिभुवने वन्दनीयो भवति । कथंभूते लोके, ससुरासुरमानुषे देवदानवमानवसहिते ।
जेवावीसपरीसह सहंति स तीसएहि संजुत्ता । ते होंति वंदनीया कम्मक्खयनिज्जरासाहू || १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org