________________
सूत्रप्राभृतं । यत् सूत्रं जिनोक्तं व्यवहारं तथा च जानीहि परमार्थम् ।
तत् ज्ञात्वा योगी लभते सुखं क्षिपते मलपुजम् ।। जं सुत्तं जिणउत्तं यत्सूत्रं जिनोक्तं । ववहारो तह य जाणपरमत्थो तत्सूत्रं व्यवहारं जानीहि तथा परमार्थ निश्चयरूपं च जानीहि हे भव्य ! त्वं वेत्थ । तं जाणिऊण जोई तत्सूत्रं व्यवहारनिश्चयरूपं ज्ञात्वा योगी ध्यानी पुमान् । लहइ सुहं खवइ मलपुंजं लभते सुखं निजामोत्थं परमानन्दलक्षणं क्षिपते निर्मूलकाषं कषते मलस्य पापस्य पुजं राशिं त्रिषष्ठिप्रकृतिसमूहं । घातिसंघातघातनं कृत्वा केवलज्ञानमुत्पादयतीति भावः । यथा वंशावष्टम्भं कृत्वाऽभ्यासवशेन रज्जूपरि चलति पश्चादत्यभ्यासवशेन वंशं त्यक्त्वा निराधारतया रज्जूपरि गच्छति तथा व्यवहारावष्टम्भेन निश्चयनयमलम्बते । तदनन्तरं व्यवहारमपि त्यक्त्वा निश्चयमेवावलंबते इति भावः ।।
मूत्तत्थपयविणहो मिच्छादिही हु सो मुणेयव्यो। खेडे वि ण कायव्वं पाणिप्पत्तं सचलेस्स ॥ ७॥
सूत्रार्थपदविनष्टो मिथ्यादृष्टिः हि स ज्ञातव्यः ।
खेलेऽपि न कर्तव्यं पाणिपात्रे सचेलस्य ॥ सुत्तत्थपयविणट्ठो सूत्रार्थपदविनष्टः पुमान् । मिच्छादिट्टी हु सो मुणेयव्यो मिथ्यादृष्टिरिति हु-स्फुटं स पुमान् मुनितव्यो ज्ञातव्यः। खेडे पि खेलेऽपि क्रीडायामपि न कर्तव्यं पाणिपात्रेण भोजनं न विधातव्यं । कस्य, सचेलस्य गृहस्थस्य ।
हरिहरतुल्लो वि णरो सग्गं गच्छेइ एइ भवकोडी । तह वि ण पावइ सिद्धिं संसारत्थो पुणो भणिदो॥८॥
हरिहरतुल्योपि नरः स्वर्ग गच्छति एति भवकोटीः । तथापि न प्राप्नोति सिद्धिं संसारस्थः पुनः भणितः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org