SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५८ षट्प्राभूते सहा णो वि सूत्रेण सह वर्तमाना सूत्रेण दोरेण सहिता णो विनापि नश्यति हस्ते चटति । पुरिसो वि जो ससुत्तो ण विणासह सो गओ वि संसारे । सच्चेयणपच्चक्खं णासदि तं सो अदिस्समाणो वि ॥ ४ ॥ पुरुषोपि यः ससूत्रः न विनश्यति स गतोपि संसारे । स्वचेतनाप्रत्यक्षेण नाशयति तं सोऽदृश्यमानोपि ॥ पुरिसो वि जो ससुत्तो पुरुषोऽपि जीवोऽपि यः ससूत्रो जिनसूत्रसहितः । ण विणासह सो गओ वि संसारे न विनश्यति स पुमान् गतोऽपि नष्टोऽपि संसारे पतितोऽपि पुनरुज्जीवति मुक्तो भवति । सच्चेयणपच्चक्खं आत्मानुभवप्रत्यक्षेण । णासदि तं सो अदिस्समाणो विणादि - नश्यति, अन्तरिनर्थो प्रयोग:, तेनायमर्थः नाशयति तं संसारं स आसन्नभव्यजीवः । कथंभूतः, अदिस्समाणो वि-अदृश्यमानोऽपि चतुर्विधसंघमध्येऽप्रकटोऽप्यप्रसिद्धोऽपि । सूत्तत्थं जिणभणियं जीवाजीवादिबहुविहं अत्थं । हेयाहेयं च तहा जो जाणइ सो हु सहिही ॥ ५ ॥ सूत्रार्थ जिनभणितं जीवाजीवा दिबहुविधमर्थम् । हेयायं च तथा यो जानाति स हि सद्दृष्टिः ॥ सुत्तत्थं जिणभणियं सूत्रस्यार्थ जिनेन भणितं प्रतिपादितं । जीवाजीवादिबहुविहं अत्थं जीवाजीवादिकं बहुविधमर्थं कर्मतापन्नं वस्तु | हेयाहेयं च तहा हैयं पुद्गलादिकं पंचप्रकारं, अहेयमादेयं निजात्मानं, तथा तेनैव षड्वस्तुप्रकारेण । जो जाणइ सो हु सद्दिट्ठी यः पुमान् जानाति वेत्ति स पुमान् हु - स्फुटं सद्दृष्टिः सम्यग्दृष्टिर्भवति । जं सूतं जिणउत्तं ववहारो तह य जाण परमत्थो । तं जाणिऊण जोई लहइ सुहं खवइ मलपुंजं ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy