________________
सूत्रप्राभृतं । जम्बूश्चेति त्रयः केवलिनः । विष्णुः नन्दिमित्रः अपराजितः गोवर्धनः भद्रबाहुश्चेति पंच श्रुतकेवलिनः । तदनन्तरं, विशाखः प्रौष्ठिलः क्षत्रियः जयसः नागसेन: सिद्धार्थः धृतिषेण: विजयः बुद्धिलः गंगदेवः धर्मसेनः इत्येकादश दशपूर्विणः । नक्षत्र: जयपालः पाण्डुः ध्रुवसेनः कंसाश्चेति पंचैकादशाङ्गधराः । सुभद्रः यशोभद्रः भद्रबाहुः लोहाचार्यः एते चत्वार एकाङ्गधारिणः । जिनसेनश्च । अर्हद्वलि: माघनन्दी धरसेनः पुष्पदन्तः भूतबलिः जिनचंद्रः कुन्दकुन्दाचार्यः उमास्वामी समन्तभद्रस्वामी शिवकोटिः शिवायनः पूज्यपादः एलाचार्यः वीरसेनः जिनसेनः नेमिचंद्रः रामसेनश्चेति प्रथमानपूर्वभागज्ञाः। अकलंकः अनन्तंविद्यानन्दी माणिक्यनन्दी प्रभाचन्द्रः रामचन्द्रः एते सुतार्किकाः । वासवचन्द्रः गुणभद्र एतौ नग्नौ अन्ते वीराङ्गजश्च । णाऊण दुविहसुत्तं ज्ञात्वा द्विविधं सूत्रं अर्थतः शब्दतश्च द्विविधं सूत्रं । वट्टइ सिवमग्गे जो भव्वो वर्तते शिवमार्गे मोक्षमार्गे यो मुनिः स भव्यो रत्नत्रययोग्यो भवति मोक्षं प्राप्नोतीति भावः ।
सुत्तं हि जाणमाणो भवस्स भवणासणं च सो कुणदि । सूई जहा असुत्ता णासदि सुत्ते सहा णो वि ॥ ३॥
सूत्रं हि जानानः भवस्य भवनाशनं च स करोति ।
सूची यथा असूत्रा नश्यति सूत्रेण सह नापि ॥ सुत्तं हि जाणमाणो भवस्स सूत्रं शास्त्रानुक्रमं हि निश्चयेन जानानो जानन् कस्य सूत्रं, भवस्स-भवस्य सर्वज्ञवीतरागस्य । भवणासणं च सो कुणदि भवस्य संसारस्य नाशनं विनाशं स पुमान् करोति विदधाति तीर्थकरो भूत्वाऽऽत्मानं प्रकटयति मुक्तो भवतीत्यर्थः । अमुमेवार्थ दृष्टान्तेन दृढयति-मूई जहा असुत्ता णासदि सूची लोहसूचिका वस्त्रदरकारिका असूत्रा दवरकरहिता नश्यति न लभ्यते । सुत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org