SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सूत्रप्राभृतं । 40अरहंतभासियत्थं गणहरदेवेहिं गंथियं सम्मं । सुत्तत्थमग्गणत्थं सवणा साहंति परमत्थं ॥१॥ अर्हद्भाषितार्थ गणधरदेवैर्ग्रथितं सम्यक् । सूत्रार्थमार्गणार्थ श्रमणाः साधयन्ति परमार्थम् ॥ अरहंतभासियत्थं अर्हद्भिस्तीर्थकरपरमदेवैर्भाषितोऽर्थः सूत्रं भवति। गणहरदेवेहिं गंथियं सम्मं गणधरदेवैश्चतुभिर्जानैः सम्पूर्णैरष्टमहासिद्धिसहितैस्तीर्थकरयुवराजैः गंथियं-पदै रचितं, सम्म-सम्यक् पूर्वापरविरोधरहितं शास्त्रं सूत्रं भवति । सुत्तत्थमग्गणत्थं सूत्रार्थमार्गणं सूत्रार्थविचारः सोऽर्थः प्रयोजनं यस्मिन् सूत्रे तत्सूत्रार्थमार्गणार्थ । तेन शुक्लध्यानद्वयं भवति । तेन सवणा साहंति परमत्थं सूत्रार्थेन श्रवणाः सदृष्टयो दिगम्बराः परमार्थ मोक्षं साधयन्ति-आत्मवशे कुर्वन्ति तेन कारणेन सूत्रं मोक्षहेतुरिति भावार्थः । सुत्तम्मि जं सुदिह आइरियपरंपरेण मग्गेण । णाऊण दुविहसुत्तं वट्टइ सिवमंग्ग जो भव्वो ॥२॥ सूत्रे यत् सुदृष्टं आचार्यपरम्परेण मार्गेण ।। ज्ञात्वा द्विविधसूत्रं वर्तते शिवमार्गे यो भव्यः॥ सुत्तम्मि जं सुदिहं सूत्रे यत् सुष्टु अतिशयेनाबाधिततया वा दृष्टं प्रतिपादितं । आइरियपरंपरेण मग्गेण आचार्याणां परंपरा श्रेणियंत्र मार्गे स आचार्य परम्परः आचार्यप्रवाहयुक्तो मार्गस्तेन मार्गेण । कोऽसौ मार्ग इति चेदुच्यते-श्रीमहावीरादनन्तरं श्रीगौतमः सुधर्मो १ मग्गि. ग. घ. । मग्गे. क. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy