________________
चारित्रप्राभृतं ।
एवं संक्षेपेण च भणितं ज्ञानेन वीतरागेण । सम्यक्त्वसंयमाश्रयद्वयोरपि उद्देशितं चरणम् ॥
एवं संखेवेण य एवममुना प्रकारेण संक्षेपेण च । भणियं णाणेण वीयराण भणितं प्रतिपादितं णाणेण ज्ञानेन ज्ञानरूपेण ज्ञानस्वभावेन केवलज्ञानिना सर्वज्ञेन वीतरागेण रागद्वेषमोहादिभिरष्टादशदोषरहितेन । किं भणितं, सम्मत्तसंजमासयदुण्हं पि सम्यक्त्वसंयमाश्रययोर्द्वयोरपि दर्शनाचारचारित्राचारयोर्द्वयोरपि । उद्देसियं चरणं उद्देशित मुद्देशमात्रं संक्षेपेण चारित्रं प्रतिपादितं । विस्तरेण तु वट्टकेरलादौ ज्ञातव्यं । भावेह भावसुद्धं फुड रइयं चरणपाहुडं चेव ।
लहु चउगइ चहऊणं अचिरेणऽपुणब्भवा होह || ४४|| भावयत भावशुद्धं स्फुटं रचितं चरणप्राभृतं चैव । लघु चतुर्गतीः त्यक्त्वा अचिरेणाऽपुनर्भवा भवत ॥
भावेह भावसुद्धं भावयत भावनाविषयी कुरुत यूयं हे भव्याः । । फुड रइयं चरणपाहुडं चेव स्फुटं प्रकटार्थ रचितं चरण प्राभृतं चारित्रसारं । चेवशब्दाद्दर्शनाचरणं चोद्देशितं । लहु चउगइ चइऊणं लघु शीघ्रं चतुर्गतीस्त्यक्त्वा नरकतिर्यङ्मनुष्यदेवगतीश्चतस्रः परिहाय । अचिरेणsपुण्णब्भवा होह अचिरेण स्तोककालेन - इतस्तृतीये भवेऽपुनर्भवाः सिद्धाः भवत यूयं । सिद्धिगतिं पंचमीं गतिं प्राप्नुत यूयमिति भद्रम् |
-
Jain Education International
इति श्रीपद्म नन्दिकुन्दकुन्दाचार्यवक्र प्रीवाचार्यैलाचार्यद्धपिच्छाचार्यनामपंचकविराजितेन सीमन्धरस्वामिज्ञानसम्बोधितभव्यजीवेन श्रीजिनचंद्रसूरिभट्टारक पट्टाभरणभूतेन कलिकालसर्वज्ञेन विरचिते षट्प्राभृते ग्रन्थे सर्वमुनिमण्डलमण्डितेन कलिकालगौतमस्वामिना - श्रीमल्लि भूषणेन भट्टारकेणानुमतेन सकलविद्वज्जनसमाजसम्मानि तेनोभयभाषाकवि चक्रवर्तिना श्रीविद्यानन्दिगुर्वन्तेवासिना सूरिवरश्रीश्रुतसागरेण विरचिता चरणामृत टीका
समाप्ता ।
५५.
For Private & Personal Use Only
www.jainelibrary.org