SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ५२ पद्माभृते ख्यान्ति प्रकथयन्ति के, जिणा - तीर्थकर परमदेवाः सामान्यकेवलिनः श्रुतकेवलिनश्चेति भावः । किं ख्यान्ति, पंचसमिदीओ-पंच समितीरिति तात्पर्यार्थः । विस्तरस्तु वट्टकेरलवीरनन्द्यादिविरचिताचारप्रन्थेषु ज्ञातव्यः । भव्वजणचोहणत्थं जिणमग्गे जिणवरेहिं जह भणियं । गाणं णाणसरूवं अप्पाणं तं वियाणेह || ३७ ॥ भव्यजन बोधनार्थं जिनमार्गे जिनवरैर्यथा भणितम् । ज्ञानं ज्ञानस्वरूपं आत्मानं तं विजानीहि || भव्वजणवोहणत्थं सम्यग्दर्शनज्ञानचारित्ररत्नत्रयप्राप्तियोग्या ये ते भव्यजनास्तेषां बोधनार्थं सम्बोधननिमित्तं । जिणमग्गे जिनस्य श्रीमद्भगवदर्हत्सर्वज्ञस्य मार्गे सम्यग्दर्शनज्ञानचारित्रलक्षणोपलक्षिते मोक्षमार्गे । जिणवरेहिं जह भणियं श्रीमद्भगवदर्हत्सर्वज्ञैर्यथा भणितं प्रतिपादितं । किं तद्भणितं, णाणं णाणसरूवं ज्ञानं व्यवहारनयेन सम्यग्ज्ञानं तथा ज्ञानस्य स्वरूपं स्वभावः । उक्तं च समन्तभद्रेण महाकविना ज्ञानस्य स्वरूपंअन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥ १ ॥ safaधं ज्ञानं ज्ञानस्वरूपं च निश्चयनयेन । अप्पाणं तं वियाणेह आत्मानं तज्ज्ञानं ज्ञानस्वरूपं च हे भव्य ! त्वं विजानीहि सम्यग्विचारयेति क्रियाकारकसम्बन्धः । जीवाजीव विहत्ती जो जागइ सो हवेइ सण्णाणी । रायादिदोसर हिओ जिणसासणे मोक्खमग्गुत्ति ॥ ३८ ॥ जीवाजीविभक्ति यो जानाति स भवेत् सज्ज्ञानः । रागादिदोषरहितो जिनशासने मोक्षमार्ग इति ॥ जीवाजीव विहत्ती जीवस्यात्मद्रव्यस्य, अजीवस्य पुद्गलधर्माधर्म कालाकाशलक्षणस्य पंचभेदस्य विभक्तिं विभंजनं विहचनमिति देश्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy