SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । ५३ जो जाणइ सो हवेइ सण्णाणी यो जानाति स भवेत् सज्ज्ञानः । रायादिदोसरहिओ स ज्ञानी कथंभूतः, रागादिदोषरहितः रागद्वेषमोहादिदोषरहितः । जिणसासणे मोक्खमग्गुत्ति जिनशासने मोक्षमार्ग इति । दसणणाणचरित्तं तिण्णि वि जाणेह परमसद्धाए । जं जाणिऊण जोई अइरेण लहंति णिव्वाणं ॥ ३९ ॥ दर्शनज्ञानचारित्रं त्रीण्यपि जानीहि परमश्रद्धया। यज्ञात्वा योगिनो अचिरेण लभन्ते निर्वाणम् ॥ दंसणणाणचरित्तं दर्शनज्ञानचारित्रं । तिणि वि जाणेह परमसद्धाए त्रीण्यपि जानीहि परमश्रद्धया प्रकृष्टरुच्या। जं जाणिऊण जोई यद्दर्शनज्ञानचारित्रं ज्ञात्वा योगिनः । अइरेण लहंति णिव्वाणं अचिरेण स्तोककालेन लभन्ते प्राप्नुवन्ति किं तनिर्वाणं सर्वकर्मक्षयलक्षणं मोक्षमिति । पाऊण णाणसलिलं णिम्मलसुविसुद्धभावसंजुत्ता । होति सिवालयवासी तिहुवणचूडामणी सिद्धा ॥ ४०॥ प्राप्य ज्ञानसलिलं निर्मलसुविशुद्धभावसंयुक्ताः । भवन्ति शिवालयवासिनः त्रिभुवनचूडामणयः सिद्धाः ।। पाऊण णाणसलिलं प्राप्य ज्ञानसलिलं लब्ध्वा सम्यग्ज्ञानपानीयं । णिम्मलसुविसुद्धभावसंजुत्ता निर्मलो निरतिचारः, सुविशुद्धो रागद्वेषमोहादिहितः, भावो निजात्मपरिणामस्तेन संयुक्ताः सहिताः पुरुषाः । होति सिवालयवासी भवन्ति शिवालयवासिनः सर्वकर्मक्षयलक्षणनिर्वाणपदनिवासिनो भवन्ति । तिहुवणचूडामणी सिद्धा त्रिभुवनचूडामणयस्त्रैलोक्यशिरोरत्नानि ते पुरुषाः सिद्धा भवन्ति-आत्मोपलब्धिवन्तो भवन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy