________________
चारित्रप्राभृतं ।
अपरिग्रहे समनोज्ञेषु शब्दस्पर्शरसरूपगन्धेषु ।
रागद्वेषादीनां परिहारो भावना भवन्ति ॥ अपरिग्गह समणुण्णेसु अपरिग्रहवते, अत्र लुप्तविभक्तिकं पदं। समगुण्णेसु-समनोज्ञेषु मनोज्ञसहितेषु अमनोज्ञेषु चेति शेषः।सद्दपरिसरसरूवगंधेसु शब्दस्पर्शरसरूपगन्धेषु पंचेन्द्रियविषयेषु । रायबोसाईणं रागद्वेषादीनां रागस्य द्वेषस्य च । आदिशब्दात्पादपूरणमेव । मनोज्ञेषु विषयेषु रागो न क्रियतेऽमनोज्ञेषु विषयेषु द्वेषो न क्रियते । इति रागद्वेषपरिहारः पंचप्रकारः पंचभावना भवन्तीति ज्ञातव्यं ।
इरिया भासा एसण जा सा आदाण चेव णिक्खेवो । संजमसोहिणिमित्ते खंति जिणा पंच समिदीओ ॥३६॥
ईर्या भाषा एषणा या सा आदानं चैव निक्षेपः ।
संयमशोधिनिमित्तं ख्यान्ति जिनाः पञ्च समितीः ॥ इर्यासमितिः चतुर्हस्तवीक्षितमार्गगमनं । भाषासमितिः आगमानुसारेण वचनं । एषणासमितिः चर्मणाऽस्पृष्टस्योद्गमोत्पादादिदोषरहितस्य भोजनस्य पुनः पुनः शोधितस्य प्रासुकस्य भोजनस्य ग्रहणं या समितिर्भवति सा तृतीया समितिः । आदाण चेव आदानं चैव यत्पुस्तककमण्डलुप्रभतिकं गृह्यते तत्पूर्व निरीक्ष्यते पश्चान्मृदुना मयूरपिच्छेन प्रतिलिख्यते पश्चागृह्यते चतुर्थी समितिर्भवति । णिक्खेवो यत्किचिद्वस्तु पुस्तककमण्डलुमुख्यं क्वचिन्निक्षिप्यते मुच्यते ध्रियते तन्निक्षेपस्थानं दृष्ट्वा तथैव प्रतिलिख्य च ध्रियते मयूरपिच्छस्यासन्निधाने मृदुवस्त्रेण कदाचित्तथा क्रियते निक्षेपणा नाम्नी पंचमी समितिर्भवति। संजमसोहिनिमित्ते एतत्समितिपंचकं संयमस्य महाव्रतपंचकस्य शोधिनिमित्तं भवति। यो मयूरपिच्छवर्जितः साधुः स मासोपवासादिकं कुर्वन्नपि न शुद्धयतीति श्रीकुन्दकुन्दभगवदभिप्रायः ।खंति जिणापंच समिदीओ खंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org