________________
५०
षट्प्राभूते-- उद्वसप्रामादिषु विमोचितावासेषु धाट्यादिभिरुद्वसेषु कृतेषु निवासः क्रियतेऽचौर्यव्रतस्य भावना द्वितीया भवति । जं परोधं च परेषामुपरोधो न क्रियते भाटकाद्यधिकं स्वामिना दत्वा स्वयं न निरुध्यतेऽचौर्यव्रतभावना तृतीया भवति परोपरोधस्याकरणमित्यर्थः । एसणसुद्धिसउत्तं एषणाशुद्धिसंयुक्तं सहितं, आगमानुसारेण भैक्ष्यशुद्धिरचौर्यव्रतभावना चतुर्थी भवति । साहम्मीसंविसंवादो सधर्माणं संमुखो भूत्वा सम्यक्प्रकारेण विसंवादो विगतसंवादो विवादो न क्रियतेऽचौर्यव्रतभावना पंचमी भवति ।
महिलालोयणपुव्वरइसरणसंसत्तवसहिविकहाहि । पुहियरसेहिं विरओ भावण पंचावि तुरियम्मि ॥३४॥
महिलालोकनपूर्वरतिस्मरणसंसक्तवसतिविकथामिः ।
पुष्टरसैः विरतः भावनाः पञ्चापि तुर्ये ॥ महिलालोयण महिलाया आलोकनं स्त्रीमनोहराङ्गनिरीक्षणं तस्माद्विरतः पराङ्मुखः । पुव्वरइसरण पूर्वरतस्मरणं पूर्व या स्त्रीभिः क्रीडाकृता तस्याः स्मरणं चिन्तनं तस्माद्विरतः । संसत्तवसहि स्त्रीणां समीपतरे या वसतिनिवासस्तस्माद्विरत: निजशरीरसंस्काररहित इत्यर्थः । विकहाहि विकथाया विरतः स्त्रीरागकथाविवर्जित इत्यर्थः । पुहिरसेहिं विरओ पु ( पौ ) ष्टिकरसस्य सेवारहित: वृष्यरसस्यानास्वादक इत्यर्थः यस्मिन् रसे सेविते वृषवत् शंडवत्कामी भवति स रसो वृष्यः कथ्यते वाजीकरणरसं न सेवते । भावण पंचावि तुरियम्मि एताः पंचापि भावनास्तुरीये चतुर्थे ब्रह्मचर्यव्रते भवन्ति ।
अपरिग्गह समणुण्णेसु सद्दपरिसरसरूवगंधेसु । रायद्दोसाईणं परिहारो भावणा होति ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org