________________
चारित्रप्राभृतं । अहत्तीसद्धलवा नाली दो नालिया मुहुत्तं तु । समऊणं तं भिण्णं अंतमुहुत्तं अणयविहं ॥२॥ एकेन समयेन न्यूनो मुहूर्तो भिन्नमुहूर्तः कथ्यते। अन्तर्मुहूर्तस्त्वनेकप्रकारः । के तेऽनेकप्रकारा अन्तर्मुहूर्तस्येत्याह-आवल्युपरि एकः समयोऽधिको यदा भवति तदा जघन्योन्तर्मुहूर्तो भवति । एवमावल्युपरि द्वयादयः समयाश्चढन्ति ते सर्वेऽप्यन्तर्मुहूर्ता भवन्ति यावत्समयोनो मूहूर्तः । एवमहोरात्रपक्षमासयनवर्षपूर्वपल्योपमसागरोपमावसर्पिण्युत्सर्पिण्यादयः कालस्य पर्याया ज्ञातव्याः । आकाशस्य तु पर्याया घटाकाश: पटाकाश: स्तम्भाकाश इत्यादयः । सम्मेण य सद्दहदि य परिहरदि चरित्तजे दोसे सम्यक्त्वेन च श्रद्दधाति रोचते न केवलं श्रद्धत्ते परिहरदि य-परिहरति च कान् , चरित्तजे दोसे-चारित्रजान् दोषानिति सम्बन्धः।
एए तिणि वि भावा हवंति जीवस्स मोहरहियस्स । नियगुणमाराहतो अचिरेण वि कम्म परिहरइ ॥१८॥
एते त्रयोपि भावा भवन्ति जीवस्य मोहरहितस्य ।
निजगुणं आराधयन् अचिरेणापि कर्म परिहरति ॥ एए तिणि वि भावा हवंति जीवस्स मोहरहियस्स एते त्रयोऽपि भावाः सम्यग्दर्शनज्ञानचारित्रलक्षणाः परिणामा भवन्ति जीवस्यात्मनः । कथंभूतस्य जीवस्य, मोहरहितस्य चारित्रमोहापंचविंशतिभेदादहितस्य वर्जितस्य । नियगुणमाराहंतो अचिरेण वि कम्म परिहरइ निजगुणं शुद्धबुद्धकस्वभावमात्मगुणं ज्ञानध्यानस्वरूपमाराधयन्नचिरेण स्तोककालेन कर्म परिहरति सिद्धो भवति ।
संखिज्जमसंखिज्जगुणं च सासारिमेरुमित्ता णं। सम्मत्तमणुचरंता करंति दुक्खक्खयं धीरा ॥ १९ ॥ १ अष्टत्रिंशाधलवा नाली व नालिके मुहूर्त तु। समयोनः स भिन्नः अन्तर्मुहूर्तोऽनेकविधः ॥ २ ॥
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org