SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूतेमिच्छादसणमग्गे मलिणे मिथ्यादर्शनमार्गे मलिने पापरूपे सति । कैः कृत्वा, अण्णाणमोहदोसेहिं अज्ञानं पंचमिथ्यात्वलक्षणं, मोहः पंचजैनाभासलक्षणः, अज्ञानं च मोहश्चाज्ञानमोहौ तावेव दोषौ ताभ्यामज्ञानमोहदोषाभ्यां बध्यन्ते पापैः वेष्टयन्ते । के ते, मूढजीवा अज्ञानिनः । केन कृत्वा, मिच्छत्ताबुद्धिउदएण मिथ्यात्वस्याबुद्धेश्चाज्ञानस्योदयेन प्रादुर्भावेन । सम्मईसण पस्सदि जाणदि णाणेण दव्वपज्जाया। सम्मेण य सद्दहदि य परिहरदि चरित्तजे दोसे ॥ १७॥ सम्यग्दर्शनेन पश्यति जानाति ज्ञानेन द्रव्यपर्यायान् । सम्यक्त्वेन च श्रद्दधाति च परिहरति चारित्रजान् दोषान् ॥ सम्मइंसण पस्सदि सम्यग्दर्शनेन सत्तावलोकनरूपेण विशेषमकृत्वा निराकाररूपेण पश्यति विलोकते । जाणदि णाणेण जानाति ज्ञानेन विशेषरूपेण साकाररूपेण ज्ञानेनात्मा जानाति । कान् पश्यति कान् जानाति, दव्वपज्जाया द्रव्याणि जीवपुद्गलधर्माधर्मकालाकाशांस्तथा पर्यायांश्च जीवस्य नरनारकादयः क्रोधमानमायालोभमोहस्नेहपुण्यपापादयश्च पर्यायास्तान् पश्यति जानाति च । तथा पुद्गलस्य व्यणुकत्र्यणुकचतुरणुकपंचाणुकादिमहास्कन्धत्रैलोक्यपर्यन्ताः पर्यायास्तान् पश्यति जानाति च । धर्मस्य येन रूपेण जीवपुद्गलौ गतिं कुरुतस्तद्रूपाः पर्यायाः । तथाऽधर्मस्य पर्यायाः स्थितिरूपा, जीवादीनां ज्ञातव्याः। कालस्य समयावलिप्रभृतयः पर्यायाः । उक्तं च आवलि असंखसमया संखेजावलिहिं होइ उस्सासो। सत्तुस्सासा थोओ सत्तत्थोओ लवो भणिओ॥१॥ १ आवलिरसंखसमया संख्येयावलिभिर्भवति उच्छ्वासः ॥ सप्तोच्छासाः स्तोकः सप्तस्तोको लवो भणितः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy