________________
चारित्रप्राभृतं ।
प्रव्रज्यायां संगत्यागे प्रवर्तस्व सुतपसि सुसंयमे भावे । भवति सुविशुद्धध्यानं निर्मोहे वीतरागत्वे ॥
66
,
पव्वज्ज संगचाए पयट्ट हे जीव ! त्वं प्रव्रज्यायां प्रवर्तस्व कस्मिन् सति, संगचाए - संगस्य वस्त्रादिपरिग्रहस्य त्यागे सति । तथा हे आत्मन् ! त्वं सुतवे पयट्ट सुतपसि प्रवर्तस्व । कस्मिन् सति, सुसंजमे भावे शोभनसंयमपरिणामे सति । असंयमिनो मासोपवासादियुक्तस्यापि सुतपोऽसद्भावात् । तथा होइ सुविसुद्धझाणं णिम्मोहे वीयरायत्ते भवति सुविशुद्धध्यानं निर्मोहे पुत्रकलत्रमित्रधनादिव्यामोहवर्जिते पुरुषे, यस्तु पुत्रादिमोहसहितो भवति तस्य विशिष्टं धर्म्यध्यानं शुक्लध्यानलेशोऽपि न भवति यतः । तथा वीतरागत्वे सति सुविशुद्ध ध्यानं भवतीति तात्पर्य । उक्तं च योगीन्द्रदेवनाम्ना भट्टारकेण
जंसु हरिणच्छी हियवडइ तासु न बंभु विचारि । एक्का केम समंति बढ ! बे खंडा पडियारि ॥ १ ॥ मूढस्य नालियबढौ " इति प्राकृतव्याकरणसूत्रं । मिच्छादंसणमग्गे मलिणे अण्णाणमोहदोसेहिं । बज्झति मूढजीवा मिच्छेत्ताबुद्धिउद्ण ॥ १६ ॥
मिथ्यादर्शनमार्गे मलिनेऽज्ञानमोहदोषाभ्याम् । बध्यन्ते मूढजीवाः मिथ्यात्वाबुद्धगुदयेन ॥
३९
१ यस्य हरिणाक्षी हृदये तस्य नैव ब्रह्म विचारय ।
एकस्मिन् कथं समायातौ वढ ! द्वौ खड्गौ प्रतिद्वारे ॥ १ ॥ २ अत्र पुस्तके सम्मत्ताबुद्धिउदण इति पाठः किं तु टीकायां मिच्छत्ताबुद्धिउदएण इति पाठः । ग. घ. पुस्तकेऽपि सम्मत्ताबुद्धिउदएण इति पाठः । घ. पुस्तके त्वस्यायं अर्थः प्रकाशितः जीवाः सम्यक्त्वबुद्धयुदयात् सम्यक्त्वम ( क्त्वा) तिप्रकटनात् अज्ञानमोहादिदोषैः मलिनं कृष्णं मिथ्यात्वदर्शनं मार्गं त्यजन्ति मुञ्चन्तीति । क.पुस्तके तु टीकोक्त एव मूलः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org