________________
३८
षट्प्राभूतेउत्साहभावनासंप्रशंसासेवाः सुदर्शने श्रद्धां।
न जहाति जिनसम्यक्त्वं कुर्वन् ज्ञानमार्गेण ॥ उच्छाहभावणासंपसंससेवा सुदंसणे सद्धा न जहदि जिणसम्मत्तं उत्साह-उद्यमस्तं कुर्वन्निति सम्बन्धः । भावणा-शरीरात्कर्मणश्चात्मा पृथग्वर्तते इति भेदभावना तां । सपसंस-सम्यक्प्रकारेण मनोवचनकायकर्मभिः प्रशंसामर्हदादीनां स्तुतिं कुर्वन् । तथा सेवां स्नपनपूजनस्तवनजपमादिगुर्वादिपादसंवाहनादिकं च कुर्वन् । मुदंसणे-सम्यग्दर्शने रत्नत्रयलक्षणमोक्षमार्गे तत्वार्थे च श्रद्धां रुचिं कुर्वन् जिनसम्यक्त्वं न जहाति न त्यजति । उत्साहादिकं केन कृत्वा कुर्वन् , णाणमग्गेण ज्ञानमार्गेण सम्यग्ज्ञानद्वारेण ।
अण्णाणं मिच्छत्तं वजहि णाणे विसुद्धसम्मत्ते । अह मोहं सारम्भं परिहर धम्मे अहिंसाए ॥ १४ ॥
अज्ञानं मिथ्यात्वं वर्जय ज्ञाने विशुद्धसम्यक्त्वे ।
अथ मोहं सारम्भं परिहर धर्मेऽहिंसायाम् ॥ अण्णाणं मिच्छत्तं वज्जहि णाणे विसुद्धसम्मत्ते अज्ञानं वर्जय दूरीकुरु, कस्मिन् सति णाणे-ज्ञाने सम्यग्ज्ञाने सति, अज्ञानस्य ज्ञान प्रत्यनीकं ततः । मिथ्यात्वं वर्जय, कस्मिन् सति सम्यक्त्वे सति मिथ्यात्वस्य सम्यग्दर्शनं प्रतिबन्धकं यतः । अह अथानन्तरं । मोहं परिहर परित्यज । कथंभूतं मोहं, सारंभं सेवाकृषिवाणिज्याद्यारम्भसहितं कस्मिन् सति, धर्मे सति चारित्रे सति । तथाऽऽरंभं परिहर कस्यां सत्यां, अहिंसाए अहिंसायां सत्यां पंचमहाव्रतानि रात्रिभोजनवर्जनषष्ठानि सर्वाण्यप्यहिंसानिमित्तं कथितानि यतः।
पव्वज्ज संगचाए पयह सुतवे सुसंजमे भावे । होइ सुविसुद्धझाणं णिम्मोहे वीयरायत्ते ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org