SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । सद्दृष्टिर्विचक्षणैर्ज्ञायते । विणएण य विनयेन च विनयगुणेन गुरुजनेष्व 1 भ्युत्थानसम्मुखगमनकरयोटनपादवन्दनादिभिर्गुणैः सद्दृष्टिर्विचक्षणैर्ज्ञायते । अणुकंपाए अनुकम्पया दुखितं जनं दृष्ट्वा कारुण्यपरिणामोऽनुकम्पा तया सद्दृष्टिर्विचक्षणैर्ज्ञायते । कथंभूतयानुकम्पया, सुदाणदच्छाए शोभनदानदक्षया दुःखितजनयोग्यदानविशिष्टया । मग्गगुणसंसणा मार्गगुणशंसनया निर्ग्रन्थलक्षणो मोक्षमार्गः सग्रन्थो वस्त्रादिवेष्टितः कोऽपि मोक्षं न गच्छति इति मोक्षमार्गस्तवनेन सदृष्टिर्विचक्षणैर्ज्ञायते । अवग्रहण उपगूहनं बालाशक्तजनजनितदोषाच्छादनेन सद्द्द्टिर्विचक्षणैर्ज्ञायते । रक्खणाए य मार्गाद्श्यज्जनस्थितीकरणेन सहटिर्विचक्षणैर्ज्ञायते इति क्रियाकारकसम्बन्धः । उच्छाहभावणासंपसंस सेवा कुदंसणे सद्धा । अण्णाण मोहमग्गे कुव्वंतो जहदि जिणसम्मं ॥ १२ ॥ उत्साहभावनासंप्रशंसासेवाः कुदर्शने श्रद्धां । अज्ञानमोहमार्गे कुर्वन् जहाति जिनसम्यक्त्वम् ॥ ३७ उच्छाहभावणासंपसंससेवा मिध्यादृष्टिकथिताचारे योऽसावु - त्साह उद्यमस्तं, संपसंस - सम्यङ्मनसा वचसा च प्रशंसनं स्तुतिवचनं, सेवा-मिथ्यादृष्टेः करादिना स्पर्शनं । कुदंसणे सद्धा मिथ्यादर्शने श्रद्धां रुचि । अण्णाणमोहमग्गे न विद्यते ज्ञानं येषां तेऽज्ञानास्तेषां मोघो निष्फलो मोहो वा संशयादिरूपो योऽसौ मार्गः संसारदुःखकारी धर्मस्तस्मिन्नज्ञानमोहमार्गे श्रद्धां रुचि कुर्वन् । जहदि जिणसम्मं जिसम्यक्त्वं जहाति मुंचति । उच्छाहभावणासंपसंससेवा सुदंसणे सद्धा । ण जहदि जिणसम्मत्तं कुव्र्वतो णाणमग्गेण ॥ १३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy