SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३६ षट्प्राभृतेसम्मत्तचरणसुद्धा सम्यक्त्वचरणे सम्यक्त्वचारित्रे ये सूरयः शुद्धाः सम्यक्त्वदोषरहिताः सम्यक्त्वगुणसहिताश्च भवन्ति । संजमचरणस्स जइ व सुपसिद्धा संयमचरणस्य यदि वा सुप्रसिद्धाः चारित्राचारे च सुप्रसिद्धाः सुष्टु अतिशयेन प्रकर्षेण सिद्धं चारित्रं येषां ते सुप्रसिद्धाः सर्वलोकविदिता वा सम्यक्त्वपूर्वकचारित्रप्रतिपालका इत्यर्थः । णाणी अमूढदिही ज्ञानिनोऽमूढदृष्टयश्च । अचिरे पावंति निव्वाणं अचिरे स्तोककाले निर्वाणं प्राप्नुवन्ति । अत्र चारित्रस्य मुख्यत्वेऽपि सम्यक्त्वज्ञानयोरपि सामग्र्यमुक्तमिति भावः । वच्छल्लं विणएण य अणुकंपाए सुदाणदच्छाए। मम्गगुणसंसणाए अवगृहण रक्खणाए य ॥१०॥ एएहि लक्खणेहिं य लक्खिज्जइ अज्जवेहिं भावेहिं । जीवो आराहतो जिणसम्मत्तं अमोहेण ॥ ११ ॥ वात्सल्यं विनयेन च अनुकम्पया सुदानदक्षया। मार्गगुणसंशनया उपगूहनं रक्षणेन च ॥ एतैः लक्षणैः च लक्ष्यते आर्जवैः भावैः। जीव आराधयन् जिनसम्यक्त्वं अमोहेन ॥ एएहिं लक्खणेहिं य एतैर्लक्षणैः । जिनसम्यक्त्वं । आराहतो आराधयन् । जीवो लक्खिज्जइ जीव आत्मा लक्ष्यते ज्ञायते । न केवलमेतैर्भावैरपि तु अज्जवेहिं भावेहिं आवै वैश्वाकुटिलपरिणामैश्चोपलक्ष्यते। केन कृत्वा लक्ष्यते ? अमोहेण अमोहेनानझानतया ज्ञानेन विचक्षणतया । विचक्षणं विना सम्यक्त्वाराधकं पुरुष कोऽपि न जानाति सम्यक्त्वपरिणामस्यातिसूक्ष्मत्वात् । अथवा अमोहेण अमोघेन सफलजन्मना पुरुषेण । एतैः कैरित्याह-वच्छल्लं एक तावद्वात्सल्यं धर्मिष्ठजनेषु स्नेहलत्वं सद्यः प्रसूतगौरिव वत्से वत्सलत्वेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy