________________
४२
षट्प्राभृतेसंख्येयामसंख्येयगुणां सर्षपमेरुमात्रां पं ।
सम्यक्त्वमनुचरन्तः कुर्वन्ति दुःखक्षयं धीराः ॥ संखिज्ज संख्येयगुणां निर्जरां सम्यक्त्वं प्रतिपालयन्तो धीरा योगीश्वराः प्राप्नुवन्तीति । असंखिज्जगुणं असंख्येयगुणां निर्जरां । अणुचरंता चारित्रं पालयन्तो धीरा योगीश्वराः । करंति-कुर्वन्ति । तदनन्तरं दुक्खक्खयं करंति सर्वकर्मक्षयादनन्तर मोक्षं प्राप्नुवन्तीत्यर्थः । कथंभूतां संख्येयगुणामसंख्येयगुणां च निर्जरां, सासारिमेरुमित्ता णं सर्षपमेरुमात्रां । सम्यक्त्वनिर्जरायाः सकाशात् चारित्रनिर्जरा बहुतरेति भावः । णं इति वाक्यालंकारे ।
दुविहं संजमचरणं सायारं तह हवे निराया। सायारं सग्गंथे परिग्गहा रहिय खलु निरायारं ॥ २० ॥ द्विविधं संयमचरणं सागारं तथा भवेत् निरागारम् ।
सागारं सग्रन्थे परिग्रहाद्रहिते निरागारम् ॥ दुविहं संजमचरणं द्विविधं संयमचरणं द्विप्रकारश्चरित्राचारः । कौ तौ द्वौ प्रकारौ, सायारं तह हवे निरायारं सागारं तथ भवेन्निरागारं । सागारं कुत्र भवति, सायारं सग्गंथे. सागारं चारित सग्रन्थे गृहस्थे भवति । तर्हि निरागारं चारित्रं कस्मिन् भवति, परिग्गहा रहिय खलु निरायारं परिग्रहाद्रहिते निम्रन्थे निरम्बरे निरागारं चारित्रं वेदितव्यमित्यर्थः ।
सायारं-अथ सागारं चारित्राचारं निरूपयन्ति श्रीकुन्दकुन्दाचार्याःदंसण वय सामाइय पोसह सचित्त रायभत्ते य । बंभारंभ परिग्गह अणुमण उदिह देसविरदो य ॥२१॥
दर्शनं व्रतं सामायिकं प्रोषधं सचित्तं रात्रिभुक्तिश्च । ब्रह्मचर्य आरंम्भः परिग्रहः अनुमतिः उद्दिष्टः देशविरतश्च ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org