SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । ३३ एवं चिय णाऊण य सव्वे मिच्छत्तदोस संकाई । परिहरि सम्मत्तमला जिणभणिया तिविहजोएण ॥६॥ एवं चैव ज्ञात्वा च सर्वान् मिथ्यात्वदोषान् शंकादीन् । परिहर सम्यक्त्वमलान् जिनभणितान् त्रिविधयोगेन ॥ एवं चिय णाऊण य एवं चैव ज्ञात्वा च । सव्वे मिच्छत्तदोस संकाई सर्वान् मिथ्यात्वदोषान् शंकादीन् । परिहरि परिहर हे जीव ! त्वं परित्यज । कथंभूतान् , सम्मत्तमला सम्यक्त्वमलान् पूर्वोक्तश्लोककथितान् पंचविंशतिदोषान् । कथंभूतान् , जिणभणिया सर्वज्ञमणितान् श्रीमद्भगवदर्हत्सर्वज्ञवीतरागप्रतिपादितान् । तिविहजोएण मनोवचनकायलक्षणकर्मयोगेन कृत्वा । किं तन्मूढत्रयं ? लोकमूढं, पाखण्डिमूढं, देवतामूढं चेति । तत्र लोकमूढं---- सूर्या? ग्रहणस्नानं संक्रान्तौ द्रविणव्ययः। सन्ध्यासेवाग्निसत्कारो देहगेहार्चनाविधिः ॥१॥ गोपृष्ठान्तनमस्कारस्तन्मूत्रस्य निषेवणं । रत्नवाहनभूवक्षशस्त्रशैलादिसेवनं ॥२॥ आपगासागरस्नानमुच्चयः सिकताश्मनों। गिरिपातोऽग्निपातश्च लोकमूढं निगद्यते ॥३॥ वरोपलिप्सयाशावान् रागद्वेषमलीमसाः। देवता यदुपासीत देवता मूढमुच्यते ॥४॥ सग्रन्थारम्भहिंसानां संसारावर्तवर्तिनां। पाषण्डिनां पुरस्कारो शेयं पाषण्डिमोहनं ॥५॥ अष्टौ मदाः के ते?... ज्ञानं पूजां कुलं जाति बलमृद्धिं तपो वपुः। अष्टावाश्रित्य मानित्वं स्मयमाहुर्गतस्मयाः ॥१॥ षडनायतनानि कानि तानि?--- षटू. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy