SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूतेकुदेवगुरुशास्त्राणां तद्भक्तानां गृहे गतिः । षडायतनमित्येवं वदन्ति विदितागमाः ॥१॥ प्रभाचन्द्रस्त्वेवं वदति-मिथ्यादर्शनज्ञानचारित्राणि त्रीणि त्रयश्च तद्वन्तः पुरुषाः षडनायतनानि । अथवा असर्वज्ञः १ असर्वज्ञायतनं २ असर्वज्ञज्ञानं ३ असर्वज्ञज्ञानसमवेतपुरुषः ४ असर्वज्ञानुष्ठानं ५ असर्वज्ञज्ञानानुष्ठानसमवेतपुरुषश्चेति ६ । शंकादयोऽष्ट यथा-शंका १ कांक्षा २ विचिकित्सा ३ मूढदृष्टि ४ अनुपगृहनं ५ अस्थितीकरणं ६ अवात्सल्यं ७ अप्रभावना चेति ८ अष्टौ शंकादयः । णिस्संकिय णिक्कंखिय णिविदिगिंछा अमूढदिट्टी य । उवगृहण ठिदिकरणं वच्छल्ल पहावणा य ते अहे ॥७॥ निःशंकितं निःकांक्षितं निर्विचिकित्सा अमूढदृष्टिश्च । उपगूहनं स्थितीकरणं वात्सल्यं प्रभावना च ते अष्टौ ॥ णिस्संकिय इत्यादि। निःशंकितं निर्भयत्वं परदर्शने जैनाभासे चामुक्तिमाननत्वं, अञ्जनचोरवजिनवचनमाननं च । णिकंखिय निष्काक्षितं सम्यक्त्वत्रतादिफलेन राज्यदेवत्वेहभवसुखेष्टजनमेलापकत्वादिनिदानस्याकरणं । सीतानन्तमतिसुतारादिवद्व्तदाय च । णिव्विदिगिंछा निर्विचिकित्सा रत्नत्रयपवित्रपात्रजनशरीरमलादिदर्शनेन शूकाया अकरणं उद्दायनमहाराजवत् । अमूढदिही य अमूढदृष्टिश्च जिनवचनेऽशिथिलत्वं रेवतीमहादेवीवत् । उवगृहण उपगूहनं जिनधर्मस्थबालाशक्तजनदोषझंपनं जिनेन्द्रभक्तश्रेष्ठिवत् । ठिदिकरणं स्थितीकरणं सम्यक्त्वव्रतादेर्धेश्यजैनस्य तत्र स्थापनं पुष्पदन्तविप्रस्य वारिषेणवत् । वच्छल्ल वात्सल्यं धर्मस्थजनोपसर्गनिवारणं अकम्पनादेर्विष्णुकुमारमुनिवत् । पहावणा य प्रभावना च जिनधर्मोद्योतनं परधर्मप्रभावविध्वंसनं च वज्रकुमारविद्याधरमुनिवत् । ते अह ते सम्यक्त्वगुणा अष्ट भवन्ति । १ पहावणा अह. ग. घ. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy