SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ xxxmom ३२ षट्पाभूतेनिश्चयात् । तिण्हं पि सोहणत्थे त्रयाणामपि सम्यग्दर्शनज्ञानचारित्राणां शोधनार्थे शोधननिमित्तं । जिणभणियं दुविह चारित्तं जिनैर्भणितं प्रतिपादितं द्विविधं चारित्रं दर्शनाचारचारित्राचारलक्षणं, तद्वक्ष्यति । जं जाणइ तं णाणं जं पिच्छइ तं च दंसणं भणियं । णाणस्स पिच्छियस्स य समवण्णा होइ चारित्तं ॥४॥ यद् जानाति तद् ज्ञानं यत् पश्यति तच्च दर्शनं भणितं । ज्ञानस्य दर्शनस्य च समापनात् भवति चारित्रं ॥ जं जाणइ तं गाणं यजानाति तज्ज्ञानं । जं पिच्छइ तं च दंसणं भणियं यत्पश्यति तच्च दर्शनं भणितं । " कृत्ययुटोऽन्यत्रापि च" इतिवचनात्कर्तरि युट्प्रत्ययः । णाणस्स दंसणस्स य समवण्णा होइ चारित्तं ज्ञानस्य दर्शनस्य च समापन्नात् समायोगाच्चारित्रं भवति । जिणणाणदिद्विसुद्धं पढमं सम्मत्तचरणचारित्तं । विदियं संजमचरणं जिणणाणसदेसियं तं पि ॥५॥ जिनज्ञानदृष्टिशुद्धं प्रथमं सम्यक्त्वचरणचारित्रम् । द्वितीयं संयमचरणं जिनज्ञानसंदेशितं तदपि ॥... जिणणाणदिहिसुद्धं पढमं सम्मत्तचरणचारित्तं जिनस्य सर्वज्ञवीतरागस्य सम्बन्धि यज्ज्ञानं दृष्टिदर्शनं च ताभ्यां शुद्धं पंचविंशतिदोषरहितं प्रथमं तावदेकं सम्यक्त्वचरणचारित्रं दर्शनाचारचारित्रं भवति । विदियं संजमचरणं द्वितीयं संयमचरणं चारित्राचारलक्षणं चारित्रं भवति । जिणणाणसदेसियं तं पि जिनस्य सम्बन्धि यत्सम्यग्ज्ञानं तेन सन्देशितं सम्यनिरूपितं तदपि चारित्रं भवति । उक्तं च मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेति दृग्दोषाः पंचविंशतिः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy