________________
चारित्रप्राभृतं ।
त्यर्थः : । अपरं कथंभूतान् सर्वज्ञानू, तिजगवंदा त्रिजगद्वन्दितान् त्रिभुवनस्थितभव्यजनपूजितानित्यर्थः । पुनरपि कथंभूतान्, अरहंता अरिर्मोह:, रकारेण रजो लभ्यते तत्तु ज्ञानावरणदर्शनावरणकर्मद्वयं लभ्यते तथा तेनैव प्रकारेण रहस्यमन्तरायः कथ्यते तेन घातिकर्मचतुष्टयहननादिन्द्रादिकृतामनन्यसंभविनीमर्हणां पूजामर्हन्तीत्यर्हन्तस्तानर्हतः । तथा भव्वजीवेहिं भव्य जीवैर्वन्द्या इति सम्बन्धः । गाणं देसण सम्मं चारितं सोहि कारणं तेसिं तेषां सर्वज्ञानां घातिसंघातघातनलक्षणाया शुद्धेः कारणं हेतुर्ज्ञानं दर्शनं सम्यक्चारित्रं च कारणं । सम्मं इति शब्द एकत्र गृहीतोऽपि त्रिभिर्योज्यः तेनायमर्थः सम्यग्ज्ञानं सम्यग्दर्शनं सम्यक्चारित्रं च सर्वेषामपि कर्मणां क्षयकारणं मूलादुन्मूलनस्य हेतुरिति भावः । तेन मुक्खाराहणहेउं तेन कारणेन मोक्षाराधनहेतुं कारणं । किं ? चारित्तं चारित्रं । पाहुडं प्राभृतं सारभूतं शास्त्रमहं वक्ष्य इति क्रियाकारकसम्बन्धः । युगलं । एतद्गाथाद्वयं युगलं युग्मं वर्तते ।
एए तिणि वि भावा हवंति जीवस्स अक्खयामेया । तिन्हं पि सोहत्थे जिणभणियं दुविह चारित्तं ॥ ३ ॥
एते त्रयोपि भावा भवन्ति जीवस्य अक्षया अमेयाः । त्रयाणामपि शोधनार्थ जिनभणितं द्विविधं चारित्रम् ॥
एए तिणि वि भावा एते त्रयोऽपि भावा ज्ञानदर्शनचारित्रपदार्थास्त्रयः परिणामाः । हवंति जीवस्स जीवस्यात्मनः सम्बन्धिनो भवन्ति न तु पुद्गलस्येति भावः । कथं भूतास्त्रयोऽपि भावा: अक्खयामेया अक्षया अविनश्वराः, अमेया अमर्यादीभूता अनंतानन्ता इत्यर्थः । ज्ञानस्य तावदानन्त्यं भवत्येव लोकालोकव्यापकत्वात् । सम्यक्त्वचारित्रयोः कथमनन्तत्वं नियतात्मप्रदेशस्थितत्वादिति चेन्न तयोरपि तत्सहचारित्वात्, यावन्मात्रं ज्ञानं तावन्मात्रं सम्यग्दर्शनं सम्यक्चारित्रं च तेषामेकी भाव
Jain Education International
For Private & Personal Use Only
३१
www.jainelibrary.org