________________
चारित्रप्राभृतं ।
सर्वार्थसिद्धिप्रदमर्हदीशं, विद्यादिनन्दं वृषसस्यकन्दं । मन्दोऽपि नत्वा विवृणोमि भक्तया, चारित्रसारं शृणुतार्यमुख्याः ॥ १ ॥ सव्वण्हू सव्वदेसी णिम्मोहा वीयराय परमेट्ठी । वन्दित्तु तिजगवंदा अरहंता भव्वजीवेहिं ॥ १ ॥ गाणं दंसण सम्मं चारितं सोहि कारणं तेसिं । मुक्खाराहणहेउं चारितं पाहुडं वोच्छे ॥ २ ॥
सर्वज्ञान सर्वदर्शिनः निर्मोहान् वीतरागान् परमेष्ठिनः । वन्दित्वा त्रिजगद्वन्दितान् अर्हतः भव्यजीवैः ॥ ज्ञानं दर्शनं सम्यक् चरित्रं शुद्धिकारणं तेषाम् । मोक्षाराधन हेतुं चारित्रं प्राभृतं वक्ष्ये ॥
"
जुगलं । सव्वण्हू सर्वज्ञान् । वंदित्तु वन्दित्वा । चारितं पाहुडं वोच्छे चारित्रं नाम प्राभृतं चारित्रप्राभृतं चारित्रसारं नाम ग्रन्थं वक्ष्ये । कः कर्ता, अहं कुन्दकुन्दाचार्यः । कथंभूतान् सर्वज्ञान् सव्वदंसी सर्वदर्शिनो लोकालोकावलोकनशीलान् । अपरं किं विशिष्टान् सर्वज्ञान्, णिम्मोहा निर्मोहान् मोहनीय कर्मरहितान् । भूयोऽपि किं रूपान्, वीराय वीतरागान् वीतः क्षयं गतो रागो येषां ते वीतरागास्तान्, अज क्षेपणे इति तावद्धातुः " अजेर्वीः" इति सूत्रेण वीरादेशः, निष्ठाक्तप्रत्यये वीत इति निष्पद्यते । वीयराय इत्यत्र शस्लोपः । भूयोऽपि किं विशेषणाञ्चितान्, परमेट्ठी परमेष्ठिनः कोऽर्थः परमे इन्द्रचन्द्रनरेन्द्रपूजिते पदे तिष्ठतीति परमेष्ठीति व्युत्पत्तेः समवशरणसम्पत्प्रमण्डितानि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org