________________
दर्शनप्राभृतं ।
२९
धान्यानि भूमौ निष्पद्यन्ते || १०||दिश आकाशश्च रजोधूमिका दिग्दाहादिरहिता भवन्ति ॥ ११ ॥ ज्योतिर्देवा व्यन्तरदेवा भवनवासिनश्च देवाः सौधर्मेन्द्राज्ञया सर्वेषां देवादीनां समाह्वानं कुर्वन्ति ॥ १२ ॥ अग्रेऽग्रे धर्मचक्रं गगने गच्छति चक्रवर्तिचक्रवत् ॥ १३ ॥ चतुर्दशोतिशयोऽष्टमङ्गलानि ॥१४॥ भृंगार : - सुवर्णालुका | तालो - मंजीरः । कलश:- कनककुम्भः । ध्वज:पताका। सुप्रीतिका विचित्रचित्रमयी पूजाद्रव्यस्थापनाह स्तम्भाधार कुम्भी । श्वेतच्छत्रं । दर्पणः । चामरं च । एतानि प्रत्येकमष्टोत्तरशतसंख्यानि । एवं चतुर्दशातिशया देवोपनीताः । अष्टप्रातिहार्याणि च भवन्ति - अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणां ॥१॥ वारसविहतवजुत्ता कम्मं खविऊण विहिवलेण स्सं । वोसचतदेहा णिव्वाणमणुत्तरं पत्ता ॥ ३६ ॥
द्वादशविधतपोयुक्ताः कर्म क्षपयित्वा विधिबलेन स्वीयं । व्युत्सत्यदेहा निवार्णमनुत्तरं प्राप्ताः ॥
वारसविहतवजुत्ता द्वादशविधतपोयुक्ता मुनयः । कम्मं खविऊण कर्माष्टविधं क्षपयित्वा । विहिवलेण चारित्रबलेन । स्सं आत्मीयं । वोसचत्तदेहा पद्मासनकायोत्सर्गलक्षणद्विविधव्युत्सर्गेण व्यक्तशरीरा मुनयः । णिव्वाणमणुत्तरं पत्ता निर्वाणं मोक्षमनुत्तरं सर्ववर्गेभ्य उत्तमं प्राप्ता गताः सिद्धा इत्यर्थः । सम्यक्त्वमाहात्म्यं सर्वमेतज्ज्ञातव्यमिति सिद्धं ।
इति श्रीपद्मनः कुन्दकुन्दाचार्यवक्र श्रीवाचार्यैलाचार्य गृद्धपिच्छाचार्य नामपंचकविराजितेन सीमन्धरस्वामिज्ञानसम्बोधितभव्यजनेन श्रीजि - नचन्द्रसूरिभट्टारकपट्टाभरणभूतेन कलिकालसर्वज्ञेन विरचिते षट्प्राभृतग्रन्थे सर्वमुनिमण्डलीमण्डितेन कलिकाल गौतमस्वामिना श्रीमल्लिभूषणेन महारकेणानुमतेन सकलविद्वज्जन समाजसम्मानित नोभय भाषाकविचक्रवर्तिना श्रीवि. द्यानन्दि गुर्वन्तेवासिना सूरिवरश्रीश्रुतसागरेण विरचिता दर्शनप्राभृतटीक
समाप्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org