________________
२८
षट्प्राभूते
तारकाः । राजसदनं । ग्रहाः । सिद्धार्थपादपः। अष्टप्रातिहार्याणि । अष्टमंगलानि । एवमादीनि अष्टोत्तरशतं लक्षणानि । तिलकमसकादीनि नवशतव्यञ्जनानि तान्यपिलक्षणशब्देनोच्यन्ते । अथ के ते चतुस्त्रिशदतिंशयाः ? निःस्वेदता । निर्मलता। क्षीरगौररुधिरता । समचतुरस्रसंस्थानं । वज्रवृषभनाराचसंहननं । सुरूपता । सुगन्धता । सुलक्षणता। अनन्तवीर्य । प्रियहितवादित्वं । इत्येते दशातिशया जन्मन आरभ्य भवन्ति । तथा घातिकर्मक्षयजा दशातिशयाः सन्ति, ते के ? गव्यूतिशतचतुष्टयसुभिक्षता । गगनगमनं । प्राणिवधाभावः । भुक्तेरभावः । उपसर्गाभावः । चतुर्मुखत्वं । सर्वविद्याप्रभुत्वं । प्रतिबिम्बरहितत्वं । लोचनपश्मनिःस्पन्दः । नखकेशानामवृद्धिः । इति घातिकर्मक्षयजा दशातिशयाः । देवोपनीताश्चतुर्दशातिशयाः। तथा हि । सर्वार्धमागधीका भाषा। कोऽयमर्थः ? अर्द्ध भगवद्भाषया मगधदेशभाषात्मकं । अर्द्ध च सर्वभाषात्मक। कथमेवं देवोपनीतत्वमिति चेत् ? मगधदेवसन्निधाने तथा परिणामतया भाषया संस्कृतभाषया प्रवर्तते॥१॥ मैत्री च सर्वजनताविषया सर्वे जनसमूहाः मागधप्रीतिंकरदेवातिशयवशात् मागधभाषया भाषन्ते परस्परं मित्रतया च वर्तन्ते इति द्वावतिशयौ ॥ २ ॥ सर्वर्तनां फलस्तबकाः । सर्वर्तनां पल्लवाः । सर्वर्तनां पुष्पाणि तादीनां भवन्ति ॥ ३ ॥ आदर्शसदृशी रत्नमयी भूमिर्भवति ॥ ४ ॥ वायुः पृष्ठत आगच्छति ॥ ५ ॥ सर्वलोकस्य परमानन्दो भवति ॥ ६ ॥ अग्रेऽग्रे योजनमेकं सुगन्धगन्धावहा भूमिभागं प्रमार्जन्ति धूलीकंटकखटकीटकर्करपाषाणादिकं च दूरीकुर्वन्ति ॥ ७ ॥ तद्भूम्युपरि मेघकुमारा गन्धोदकं वर्षन्ति ॥ ८॥ सुवर्णपत्रपद्मरागमणिकेसरविराजितं योजनमेकं कमलं तादृशचतुर्दशकमलवोष्टितं स्वामिनः पादाधो भवति तादृशानि पद्मानि सप्ताग्रे भवन्ति सप्त पृष्ठतश्च भवन्ति ॥९॥ अष्टादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org