________________
दर्शनप्रभृतं । परमानन्दलक्षणं सुखं भवति न केवलमक्षयसुखं भवति मोक्षं च द्रव्यकर्मनोकर्मभावकर्मरहितं ऊर्ध्वगमनलक्षणं परमनिर्वाणं च चकास्ति । विहरदि जाव जिीणदो सहसहसुलक्खणेहिं संजुत्तो। चउतीसअइसयजुदो सा पडिमा थावरा भणिया ॥३५।। _ विहरति यावजिनेन्द्रः सहस्राष्टसुलक्षणैः संयुक्तः।
चतुस्त्रिंशदतिशययुतः सा प्रतिमा स्थावरा भणिता ॥ विहरदि जाव जिणिंदो विहरति पर्यटति आर्यखण्डे यावत्सम्बोधनं करोति जिनेन्द्रस्तीर्थकरपरमदेवः । स कथंभूतः, सहसुलक्खणेहिं संजुत्तो अष्टाधिकसहस्रलक्षणैः संयुक्तः । चउतीसअइसयजुदो चतुस्त्रिंशदतिशययुतः । सा पडिमा थावरा भणिया सा प्रतिमा प्रतियातना प्रतिबिम्ब प्रतिकृतिः स्थावरा भाणता इह मध्य-. लोके स्थितत्वात् स्थावरप्रतिमेत्युच्यते । मोक्षगमनकाले एकस्मिन् समये जिनप्रतिमा जंगमा कथ्यते । व्यवहारेण तु चन्दनकनकमहामणिस्फटिकादिघटिता प्रतिमा स्थावरा । समवशरणमण्डिता जंगमा जिनप्रतिमा प्रतिपाद्यते । अथ कानि तानि जिनलक्षणानि अष्टाधिकसहत्रसंख्यानीति चेदुच्यन्ते-श्रीवृक्षः । करचरणेषु शंखः । अम्भोज । स्वस्तिकः । अंकुशः । तोरणं । चामरं । श्वेतातपत्रं । सिंहासनं । ध्वजः । मत्स्यौ । कुम्भौ । कच्छपः । चक्रं । समुद्रः। सरोवरं । विमानं । भवनं । गजः । नरनायौँ । सिंहः । बाणधनुषी । मेरुः । इंद्रः । पर्वतः । नदी । पुरं । गोपुरं । चंद्रः । सूर्यः । जात्यश्वः । व्यजनं । वेणु । वीणा । मृदंगः । पुष्पमाले द्वे । पट्टकूलं । हट्टः । कुण्डलादिषोडशाभरणानि । फलिनमुद्यानं । सुपक्ककलमक्षेत्रं । रत्नद्वीपः । वज्रं । मही । लक्ष्मीः । सरस्वती । सुरभी । वृषभः। चूडारत्नं । महानिधिः । कल्पवल्ली । हिरण्यं । जम्बूवृक्षः । गरुडः । नक्षत्राणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org