________________
मोक्षप्राभृतं ।
३७७ त्नत्रयसाधकत्वात् सर्वद्वन्द्वविमुक्तत्वात् दीक्षाशिक्षायात्राप्रतिष्ठाद्यनेकधर्मकार्यनिश्चिन्ततयाऽऽत्मतत्वसाधकतया ममात्मायमेव सर्वसाधुर्वर्तते इति पंचपरमेष्ठिन आत्मनि तिष्ठन्तीति कारणात् । तम्हा आदा हु मे सरणं तस्मात्कारणादात्मा हु-स्फुटं मे मम शरणं संसारदुःखनिवारकत्वादर्तिमथनसमर्थः मम शरणं गतिरिति ।
सम्मत्तं सण्णाणं सच्चारित्तं हि सत्तवं चेव । चउरो चिहहि आदे तमा आदा हु मे सरणं ॥१०५॥ सम्यक्त्वं सज्ज्ञानं सच्चारित्रं हि सत्तपश्चैव ।।
चत्वारः तिष्ठन्ति आत्मनि तस्मादात्मा हु मे शरणम् ॥ सम्मत्तं सण्णाणं सम्यग्दर्शनरत्नं सज्ज्ञानं समीचीनमबाधितं पूर्वापरविरोधरहितं सम्यग्ज्ञानं । सच्चारित्तं हि सत्तवं चेव सञ्चारित्रं सम्यक्चारित्रं पापक्रियाविरमणलक्षणं परमोदासीनतास्वरूपं च सम्यक्चारित्रं, सत्त-समीचीनं तपः इच्छानिरोधलक्षणं चेति । चउरो चिहहि आदे एते चत्वारोऽपि परमाराधनापदार्थास्तिष्ठन्ति, क तिष्ठन्ति ? आत्मनि निजशुद्धबुद्धकस्वभावजीवतत्वे तिष्ठन्ति । यदात्मनः श्रद्धानमात्मेव करोति, आत्मनो ज्ञानमात्मैव विधत्ते, आत्मना सहैकलोलीभावमात्मैव कुरुते, आत्मैवात्मनि तपति, केवलज्ञानेश्वर्य प्राप्नोति चतुर्भिरपि प्रकारैरात्मात्मानमेवाराधयति । तम्हा आदा हु मे सरणं तस्मादात्मैव मम शरणमर्तिमथनसमर्थः संसारार्तिनिषेधकत्वात् आत्मैव मे गतिः, मंगलं मलगालने कर्ममलकलङ्कनिषेधने मंगस्य सुखस्य दाने च समर्थत्वादात्मैव परमं मंगलगिति भावार्थः ।
एवं जिणपण्णतं मोक्खस्य य पाहुडं सुभत्तीए। जो पढइ सुणइ भावइ सो पावइ सासयं सोक्खं ॥१०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org