SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३७६ षटमाभते-- मदेवैर्यद्धयायते अहर्निशं शुक्लध्यानार्थ सर्वकर्मक्षयार्थ तत्पदप्राप्त्यर्थ अनुचिन्त्यते। थुन्वंतेहि थुणिज्जइ स्तूयमानैस्तीर्थकरपरमदेवैर्यत् स्तूयतेऽनन्तगुणोद्भावनतया प्रशस्यते । देहत्थं कि पि तं मुणह देहस्थं शरीरमध्ये स्थितं किमप्यपूर्वमनिर्वचनीयमासंसरमप्राप्तं तद्योगिनां प्रसिद्ध तत्वं आत्मस्वरूपं मुणह-जानीत यूयं । यदुक्तं तिलमध्ये यथा तैलं दुग्धमध्ये यथा घृतं । काष्ठमध्ये यथावन्हिर्देहमध्ये तथा शिवः ॥१॥ शिवशब्दवाच्यमात्मतत्वमित्यर्थः । इदानी शास्त्रस्यान्ते मंगलनिमित्तं पंचपरमेष्ठिपुरस्सररत्नत्रयगर्भितमास्मतत्वमुद्भावयन्ति भगवन्तः-- अरुहा सिद्धायरिया उज्झाया साहु पंचपरमेही । ते वि हु चिहहि आदे तम्हा आदा हु मे सरणं ॥१०४॥ अर्हन्तः सिद्धा आचार्या उपाध्यायाः साधवः पंचपरमेष्टिनः । तेऽपि हु तिष्ठन्ति आत्मनि तस्मादात्मा हु मे शरणम् ॥ अरुहा सिद्धायरिया अर्हन्तः सिद्धा आचाश्चि । उज्झाया साहु पंचपरमेही उपाध्यायाः, साधयः, एते पंचपरमेष्टिनो देवा ममेष्टदेवताः । ते वि हु चिहहि आदे तेऽपि पंचपरमेष्ठिनो देवा अपि तिष्ठन्ति, क ? आत्मनि निजजीवतत्वे । केवलज्ञानादिगुणविराजमानत्वात् सकलभव्यजीवसम्बोधनसमर्थत्वाच्चात्मायमर्हन् वर्तते । सर्वकर्मक्षयलक्षणमोक्षपदप्राप्तत्वात् निश्चयनयान्ममात्मायमेव सिद्धः । दीक्षाशिक्षादायकत्वात् पंचचाराचरणचारणप्रवीणत्वात् सूरिमंत्रतिलकमंत्रतन्मयत्वान्ममात्मायमेवाचार्यपदभागी वर्तते । श्रुतज्ञानोपदेशकत्वात् स्वपरमतविज्ञायकत्वात् भव्यजीवसम्बोधकत्वान्ममात्मायमेवोपाध्यायः । सम्यग्दर्शनज्ञानचारित्रर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy